________________
पं. श्रीप्रतापविजयविरचितः
(१८)
॥ श्रीअरनाथ-चैत्यवन्दनम् ॥ पटीयांसं श्रोतोबलजयविधानेऽसमगुणं, नतामाधीशं विशदयशसं शूकजलधिम् । गतक्लेशोद्रेकं गजपुरपति निर्वृतिगतं, मुदाऽरं देवेन्द्रं नमत जितमारं प्रतिदिनम् ॥१॥ न कामः कालुष्यं कलयति भवत्पादसुजुषां, प्रबन्धाः पापानां झटिति विलयं यान्ति भविनाम् । त्वदाख्याजापानामरजिनपते ! मोहविजयिन् !, कदाचिन्नो बाधोद्भवति भवजन्या मतिमताम् ॥२॥ त्वदासेवाऽराऽर्हन् ! विघटयति विघ्नान् भवभृतां, विधत्ते सम्पत्तिं जनयति समन्ताच्छिवसुखम् । भवासन्तापाग्नि प्रशमयति शीघ्रं जलमिव, विभिन्ते दौर्भाग्यं कलयति च सौभाग्यमतुलम् ॥३॥
(१९) ॥ श्रीमल्लिनाथ-चैत्यवन्दनम् ॥
नयानां स्रष्टारं त्रिभुवनजनद्वन्द्वदमिनं, शमौको नीरागं क्षपितनिखिलोन्मत्तकुमतिम् । प्रभावत्याः पुत्रं सकलबुधसंसेवितपदं, नमामो मल्लीशं शुकसदृशवर्णं वितमसम् ॥१॥ जनुर्दीक्षाज्ञानान्यजनिषत यस्योत्तमदिने, तिथावेकादश्यां मृगशिरसि मासे सितदले । कृतार्थः कन्दर्पज्वरशमनवैद्योऽनघमनाः, स पायाद् वो मल्लिः कृतनिखिलकर्मव्यपहृतिः ॥२॥ लसद्विद्यासिन्धो ! सदतिशयकल्लोलजलधे!, स्फुरद्वाचोयुक्त्या भुवनजनसम्बोधनिपुण ! । प्रभो! बाल्याद्ब्रह्मव्रतचरणदक्षाऽवनिपते!, भवात् क्रूरान्मल्लेऽप्रमितकलहात् पाहि लघु माम् ॥३॥
(२०)
॥ श्रीमुनिसुव्रतस्वामि-चैत्यवन्दनम् ॥ दधानं धीराणामतिमहितकं विंशतिधनुः-समुच्छ्रायं देहं शुभसकललोकोत्तरकलम् । सहस्रं यस्याऽऽयुस्त्रिगुणितदशानां च शरदां, श्रये तं सौमित्रिं निबिडकुमतिध्वान्ततपनम् ॥१॥ नवीनाम्भोवाहप्रतिमतनुमानम्रविबुध-स्फुरन्मौलिप्रेक्षन्मणिगणविभोयोतजननम् । वृता पूता येनाऽनुपमशमकैवल्यकमला, स्तुमस्तं सौमित्रेयममदनमादित्यमहसम् ॥२॥ समाप ज्येष्ठे योऽसितदलनवम्यां शिवपदं, विटानां पन्थानं व्रजति नहि दृष्टेः क्वचिदपि । वसन्मुक्तिस्थाने भविजनहृदि ध्यानविषय-स्त्रिकालं तं भव्याः स्मृतिपथमुपाधत्त सुमुनिम् ॥३॥
(२१) ॥ श्रीनमिनाथ-चैत्यवन्दनम् ॥
यदीयं पादाब्जं स्मृतिपथमवाप्तं सुभविनां, तमोध्वान्तं हाईं हरति तनुते सातमखिलम् । अवत् प्रत्यूहेभ्यो विशदयति सम्मोदपटलीं, समस्तान् सज्जन्तून् स नमिरवतात् संसृतिभयात् ॥१॥ निजौजोभि नोः जितसकलशोभं क्षितितले, बुधैः सूक्ताम्भोजैविहितचरणाब्जार्चनमजम् । विभुं नीलाब्जाङ्कं कपटपटसम्पाटनपटुं, नर्मि देवं नित्यं भजत भविनो निर्वृतिकरम् ॥२॥