________________
इदं तु ध्येयं - अत्र समाविष्टानि सर्वाण्यपि स्तोत्राणि काव्यतत्त्वस्य दृष्ट्योत्तमान्येवेति विधानं कर्तुं न पार्यते । तारतम्यं तु स्यादेव । परं किं तेन ? स्तोत्रेषु भक्तिरेव प्रमुखो रसः, इष्टतत्त्वस्य गुणवर्णनमेव तत्राऽलङ्करणं, भावप्रवणतैव तत्र गुणः, सर्वस्वसमर्पणस्यैव तत्र प्राधान्यम् । काव्यानुशासननियमान् मनसि निधाय कविः काव्यं विदधातुं शक्नुयात्, परं भक्तेन स्तोत्रं नैव रच्यते, स्तुति व क्रियते, स्तवनं नैव विधीयते; तस्याऽन्तस्तलात् स्वयमेवैतेषां प्रादुर्भावः । काव्यशास्त्रं तत्राऽकिञ्चित्करतां बिभर्ति । अन्तःकरणेऽसम्मान्त्या भक्तेर्हठाद् बहिः समुच्छल्ल्येष्टतत्त्वं प्रति प्रवहणमेव स्तुतिः । भक्तिस्तावतैवाऽऽत्मानं कृतकृत्यं मन्यमाना नैवाऽपेक्षते काव्यशास्त्रीयप्रमाणपत्रम् । एतेषु स्तोत्रेषु भक्तितत्त्वं कियत् प्रबलं तत् पठनैकगम्यम् ।
अथैतेषां ग्रन्थानां लेशतः परिचय: -
स्तुतिकल्पलता- प्रवर्तकमुनिराजैः प्रायो वैक्रमीये १९६५ तमे वर्षे तन्नाम स्ववयसोऽष्टादशे एव वर्षे रचितेयं कृतिः । अत्र तैर्व्यापारितां महनीयां विद्वत्तां दृष्ट्वा के वाऽऽनन्दभाजो न भवेयुः? अत्रस्थानि छन्दोनामगर्भ-पकारादिबन्धाख्य-निर्दन्त्य-पञ्चवर्गविनिर्मुक्तादीनि काव्यानि बुद्धिवैभवद्योतनेन यथाऽस्मान् चकितचकितान् कुर्वन्ति, तथैव स्तम्भनपार्श्वस्तोत्र-विजयनेमिसूरिशतकादीनि स्तोत्राणि भाववाहित्वेन हठादस्मासु समर्पणभावनामुद्गमयन्ति । मुनिवराणामार्जवसम्भृतां विज्ञप्तिं पश्यत - "यस्य स्मृतिर्न च मतिर्न गतिर्न शक्ति
रापद्रुजाऽतिपरिपीडितविग्रहस्य । तस्यौषधीपतिसमप्रभकेवलं त्वां,
त्यक्त्वा विधास्यति परो मम कश्चिकित्साम् ? ॥" (पृ. १९) शब्दलालित्यं तु वर्णनातिगम् - "भुवनभूषण ! विहतदूषण ! कुमतिसंहतिपूषणं,
भुवनपावन ! विगतभावनविषयधावनलोलुभम् । भयविभञ्जन ! भविकरञ्जन ! वरनिरञ्जनपूजन !,
सदयमुद्धर जिन ! यशोऽभिधमशरणं शरणागतम् ॥" (पृ. ३४) मुनिवराणां शब्दचातुर्यपि रम्या - "यस्ते यजस्त्वमिह तस्य जयप्रदोऽसि,
यस्ते प्रयच्छति रवं वरदोऽसि तस्य । एवं त्वमक्षरविपर्ययकेलिशीली,
किं नाथ ! यच्छति नमो न मनो ददासि ?" (पृ. १९) सङ्क्षेपेण कथ्यते चेत् स्तुतिकल्पलतायाः फलान्यास्वदमानानां चित्ते आनन्दाद्वैतं संजनिष्यते इति निश्चप्रचम् ।