________________
कथयति सङ्कलनकारः किञ्चित्
समस्ति वार्तेयं गतवर्षस्य ज्येष्ठमासस्य । वयं गुरुचरणानां निश्रायां विहरन्त आस्म । तदा राजनगरे 'शेठ हठीभाईनी वाडी'-परिसरे निर्मीयमाणस्य शासनसम्राट-भवनस्योद्घाटनसमारोहस्य विषये चर्चा प्रचलति स्म । तदा गुरुभगवद्भिः प्रेरणा कृता – “अस्मिन्नुत्सवे परमगुरोः सम्बन्धिनः कस्यचिद् ग्रन्थस्याऽपि प्रकाशनं भवतु । तेनोत्सवस्य शोभा वधिष्यते" इति । प्रस्तावोऽयमतीव रोचकः । समयोऽपि पर्याप्त एव । परं ममाऽल्पीयसी क्षमतां कार्यकाले दीर्घसूत्रित्वं च पश्यतो मम कार्यं दःशकमेव प्रत्यभात । तथापि "येन प्रेरणा कता, मयि च विश्वासो निहितः, स एव कपालः कार्यं कारयिष्यतीति किं मम निमित्तमात्रभूतस्य चिन्तये"ति विमृश्य मया सा प्रेरणाऽऽज्ञेव सादरीकृता । अस्याः फलमेव विलसति भवतां करकमले ।
ग्रन्थेऽस्मिन् प्रवर्तक-मुनिश्रीयशोविजयः, पंन्यास-श्रीप्रतापविजयगणिः, श्रीविजयनन्दनसरिः, श्रीविजयपद्मसूरिश्चेत्येतेषां चतुर्णा महापुरुषाणामुपलब्धानि सर्वाण्यपि प्रकाशितानि संस्कृत-प्राकृतस्तोत्राणि सङ्कलितानि । (प्रवर्तक-श्रीयशोविजयमुनिवरस्याऽप्रकाशितानि कानिचिदद्भुतानि स्तोत्राणीदमिदानीमेवोपलब्धानि । परं समयाभावात् तान्यत्र योजयितुं न शक्तम् । तानि स्तोत्राणि तस्य मुनिवरस्य स्वर्गारोहणशताब्दरूपेऽस्मिन्नेव वर्षे पृथग्ग्रन्थरूपेण प्रकाशयितुं भावनाऽस्ति ।) स्तोत्रग्रन्थसमुच्चयोऽयं षट्स विभागेषु प्रविभक्तः, क्रमशः - १. प्रवर्तक-मुनिश्रीयशोविजयविरचिता स्तुतिकल्पलता २. पं. श्रीप्रतापविजयगणिसन्दृब्धो नूतनस्तोत्रसङ्ग्रहः ३. श्रीविजयनन्दनसूरिप्रणीतः स्तोत्रभानुः ४.-५. श्रीविजयपद्मसूरिकृतौ स्तोत्रचिन्तामणि-प्राकृतस्तोत्रप्रकाशौ ६. तेषामेव चतुर्णां विदुषां विभिन्नस्थलेषु प्रकटितानि स्तोत्राणि समावेशयन् प्रकीर्णरचनासन्दोहश्च । आद्यविभागपञ्चकरूपेण समाविष्टेषु पञ्चसु ग्रन्थेषु सर्वाण्यपि स्तोत्राणि यथावदेव मुद्रितानि । केवलं नूतनस्तोत्रसङ्ग्रह-स्तोत्रचिन्तामणिप्राकृतस्तोत्रप्रकाशेषु कञ्चनाऽऽनुपूर्वीविशेषं मनसि निधाय स्तोत्राणां क्रमपरिवर्तनं विहितम् ।
समुच्चयोऽयं ग्रन्थषट्कं, तदङ्गभूतानि शताधिकानि स्तोत्राणि, तन्नाम सहस्राधिकान् श्लोकान् स्वस्मिन् समावेशयति । एतावन्महाकायस्याऽस्याऽऽमूलचूलं काव्यशास्त्रीयपरीक्षणं नेयं तन्वी भूमिका कर्तुं शक्नोति । न चाऽस्या लेखकस्य तादृशी क्षमताऽपि । इह तु केवलमेतेषां स्तोत्राणां पठनेन य आह्लादोऽनुभूतस्तमेव सहृदयेभ्यो वितरीतुमुपक्रम्यते ।