________________
10
I
नूतनस्तोत्रसङ्ग्रहः – पंन्यास श्रीप्रतापविजयगणिभिः १९६७ संवति सन्दृब्धोऽयं ग्रन्थ आन्तं यावदवगाहितुमस्मान् विवशीकरोति । कवेर्भक्तिप्राबल्यं, निर्दुष्टं वैदुष्यं, वैदग्ध्यपूर्णभङ्गभणितिः, समुचितशब्दचयनशक्तिश्चेति सर्वमपि मनसि किमप्यकथ्यमाकर्षणं जनयति । विविधच्छन्दोभिर्ग्रथितायां जिनचतुर्विंशिकायां प्रत्येकं स्तुतिगुच्छस्य चरमे श्लोके गुरुनामगर्भश्चक्रबन्धः शब्दशास्त्रपारङ्गततामेव व्यनक्ति ।
स्तोत्रभानुः – वैक्रमीये १९७२ वर्षेऽर्थात् श्रीविजयनन्दनसूरीश्वराणां तदानीं श्रीनन्दनविजयमुनीनां) प्रव्रज्यापर्यायस्य तृतीये वर्षे तन्नाम वयसः सप्तदशे एव वर्षे उदितोऽयं भानुः । इदमेवाऽस्याऽनितरसाधारणं वैशिष्ट्यम् । योऽयमिदानीं संस्कृतव्याकरणाध्ययनस्य प्रारम्भकालः परिगण्यते, तस्मिन् दीक्षापर्यायस्य तृतीये एव वर्षे एतादृशीं प्रौढिं मधुरां भणितिभङ्गीं शब्दयोजननिपुणतां च निरीक्ष्याऽनायासेनैवाऽनुमीयते गुरोः प्रतिभोद्भावकः प्रभावः शिष्यस्य च प्रारब्धपुष्टः परिश्रमः । मुनेः प्रस्तुतिकौशलं दृश्यताम् –
"अल्पाशयेन तव नाथ ! मयोच्यमानं,
स्तोत्रं धरिष्यति हृदि प्रवराशयोऽपि ।
क्षीराब्धिमौक्तिकमदन्नपि राजहंसः,
किञ्जल्कमत्ति किल कर्दमजस्य किं नो ?" (पृ. १३५ )
ग्रन्थे सुचारुतयाऽवलोकिते न कदापि वयं कवेरेतत्कथनेन साकं सम्मतिमादधातुं शक्नुयाम - "नाऽस्त्येव सुन्दरतरा बहुकल्पनाऽत्र,
नाऽस्त्येव शब्दरचना जनतोषदात्री ।" (पृ. १३८)
स्तोत्रचिन्तामणिः – श्रीविजयपद्मसूरिभि: १९७७ तः १९९५ यावद् रचितानि स्तोत्राण्यत्र सङ्कलितानि सन्ति । स्तोत्रेष्वेषु पदे पदेऽनुभूयमानान् प्रभुभक्ति- गुरुसमर्पण-नम्रतादीन् गुणान् दृष्ट्वा हृदयमिदमेव रटति यदीदृशी भावप्रवणता नाऽस्ति तर्हि वृथा वाग्विलासेनाऽलम् । कर्तृत्वस्याऽहंतायाश्च विलयः सहजसिद्धोऽस्मिन् महापुरुषे । समर्पणस्योत्कटतां पश्यत -
"वक्तुं शक्तिमती न मेऽपि रसना यस्योपकारावलि,
ध्येयो यो मयि निर्गुणेऽपि प्रगुणो भद्रोन्नतौ सर्वदा । आत्मोद्धारक एक एव मम सोपाधेर्भवाम्भोधितः,
तीर्थोद्धारपरायणो जयतु स श्रीनेमिसूरीश्वरः ॥" (पृ. १८८)
अत्रस्थस्तोत्रेषु न केवलमिष्टतत्त्वस्य गुणवर्णनमपि तु इतिहासदर्शनं, तीर्थकरदेशनादेशनं, तत्त्वनिरूपणमित्यादीनि तत्त्वान्यपि दृश्यन्ते इत्यनन्यं वैशिष्ट्यम् । यत्किमपि विषयवस्तु भवतु, तस्य सुन्दरतया प्रस्तुतौ सूरीणामेकाधिकारः ।
प्राकृतस्तोत्रप्रकाशः – प्राकृतभाषायां रचनाकरणमिदानीं विरलं जातम् । रचनाकौशलमेवेदानीं न दृश्यते इति कथ्यते चेदपि नाऽतिशयोक्तिः । न केवलं तावत्, प्रायोऽद्य प्राकृतसाहित्यं न पठ्यते