________________
पं. श्रीप्रतापविजयविरचितः
सुतः सेनाराज्याः कुगतिलतिकोन्मूलनकरी, जगन्मायामुक्तो भुवनसविता सातसवनः । स्तुतः श्रीनागेन्द्रैरतिविशदविज्ञानजलधि-जगद्वन्धु/रो भुवि विजयतां सम्भवजिनः ॥२॥ नयानामम्भोधिः प्रविततयशा विश्ववलये, गताऽज्ञानावस्थोऽशुभशलभदग्धेन्दुवदनः । भवाम्भोधि तीर्णो जगदसुमतां तारणपरः, प्रदद्यादिष्टं नोऽकविघटयिता सम्भवपतिः ॥३॥
(४)
॥ श्रीअभिनन्दनस्वामि-चैत्यवन्दनम् ॥ क्षमावासोऽधीशः कृतसमुपकारः सुकृतिनां, विदर्पः कन्दर्पद्विपमदविनाशैककुशलः । महीख्यातैश्वर्यो दितसकलकर्मा सुतपसा, जिनेन्द्रस्तुर्योऽसौ जगति जयति स्फारमहिमा ॥१॥ प्रदाताऽभीष्टानां भुवनजनपाता करुणया, परात्माऽकोपी संवरनृपसुतोऽज्ञेयगतिकः । जयी षड्वर्गाणां प्लवगवरलक्ष्माङ्कितपद-श्चतुर्थो देवेन्द्रो दिशतु परमानन्दपदवीम् ॥२॥ गतापत्सन्दोहोऽक्षयपदनिवासो निखिलवि-ज्जितस्फाराक्षाश्वो निखिलवृजिनानामपहरः । महद्राज्यं त्यक्त्वा व्रतमुपययौ यो हितकरं, स जीयाल्लोकेऽसौ विपुलमतिमान् संवरसुतः ॥३।।
॥ श्रीसुमतिनाथ-चैत्यवन्दनम् ॥ जनानन्दाधात्रे विगतविततक्लेशततये, कषायाऽऽभीलघ्ने दशविधवृषाणामुपदिशे । भवागाधाऽऽबाधानिवहविरहानन्दसुयुजे, नमस्तस्मै भक्त्या सुमतिजिननाथाय सततम् ॥१॥ यदीयं माहात्म्यं त्रिभुवनजनैर्गीतमतुलं, सदा देवैः सेव्यं मदनदमनोडीशसदृशम् । प्रभुं पुण्यात्मानं शिवसुखकरं सिद्धसमयं, स्फुरद्धामानं तं सुमतिजिनमानौमि नितराम् ॥२॥ कृपाब्धि योगीन्द्रं सहृदयमलक्षालनजलं, निराधाराधारं गिरिवरसुधीरं शमनिधिम् । प्रशान्तं क्रौञ्चाङ्क्ष विहितरमणीत्यागमनिशं, स्तुवे भक्त्या मेघक्षितिपतितनूजं जिनपतिम् ॥३॥
॥ श्रीपद्मप्रभजिन-चैत्यवन्दनम् ॥ कृतान्तःशञ्चन्तः प्रविहितभवान्तोऽशिवहरो, महौजा दुर्वादिप्रवचनकलापाटनपटुः । क्षताङ्कः पद्माङ्को विपुलभविकौको गतरति-ममाऽनिष्टं कष्टं धरनृपतिसूनुर्दलयतात् ॥१॥ गुणावासाघासोदयसमयहंसद्युतितनो!, व्यपास्ताशेषार्ते ! धरकुलविहायोऽम्बरमणे! । ममाऽगाधाऽऽबाधां प्रविदलय पद्मप्रभविभो !, सुसीमाङ्गोद्भूताऽसुरसुरनरेन्द्रैः स्तुतगुण ! ॥२॥ विसङ्कल्पं सार्धद्विशतनलिकोच्छ्रायवपुषं, स्तुतं विश्वैर्भक्त्याऽप्रतिहतवरज्ञानमनघम् । गवीशं सम्मेते कृतमनशनं येन शिवदं, नमामस्तं पद्मप्रभजिनमनीशं वयमिमम् ॥३॥