________________
नूतनस्तोत्रसङ्ग्रहः
७३
(१८)
॥ श्रीअरनाथ-चैत्यवन्दनम् ॥ दक्षो जगन्निखिलकष्टरजोऽहिकान्तो, हावैजितो न भुवनाधिपती रमाणाम् । विभ्राजमानचलचामरभूरिभूति-स्तीर्थेश्वरः कनकपर्वतसार धैर्यः ॥१॥ संसारतोयनिधितारणकर्णधारो, निर्दोषशान्तचरितश्चपलाक्षजेता । देवीति नाम जननी किल यस्य गीता, निर्दम्भधीः प्रवितरत्वभिवाञ्छितं नः ॥२॥ द्वाभ्यां युग्मम् ॥ ज्ञानादिरत्नपरिपूर्णहृदं विमानं, स्फूर्जगिरा परमपावितभव्यचित्तम् । मुक्त्येकबन्धुररमावरणाभिलाषाः!, सिद्धिप्रदं प्रणमताऽरजिनं पवित्रम् ॥३॥
__ (१९)
॥ श्रीमल्लिनाथ-चैत्यवन्दनम् ॥ भव्यौघचिन्तितपदार्थसुधाशिवृक्षो, देवेन्द्रमौलिमुकुटार्चितपादपीठः । कल्याणकृत्कनककुम्भकलङ्कयुक्तः, श्रीमल्लितीर्थपतिरन्तयताद् विपत्तिम् ॥१॥ दानं विधाय किल वार्षिकमत्र योऽसौ, भेजे व्रतं परममोक्षपथप्रदीपम् । सेहे परीषहगणं स मुदाऽऽत्मशुद्ध्यै, मल्लिः सदा भवतु कामितसिद्धये वः ॥२॥ जन्मादिकष्टविरहात् समवाप्तसिद्धे-र्वाचां गुरोः सकलनिर्जरपूजिताहेः ।। सज्ज्ञानरत्नजलधेः करुणाकरस्य, मल्लेर्नुमोऽघ्रिकमलं भवसिन्धुनावम् ॥३॥
(२०)
॥ श्रीमुनिसुव्रतस्वामि-चैत्यवन्दनम् ॥ विश्वावतंसमशुभवजनाशदक्षं, निष्कामनिर्मदचरित्रममर्त्यपूज्यम् । दानाद्यसन्निभचतुविधधर्मदेशं, वन्दे सुमित्रतनयं नवमेघकान्तिम् ॥१॥ येनोपमतिमशेषशरीरिजाड्यं, रागाद्यरातिततयो निहताश्च येन । तं तीर्थनाथमनघं भवपारलब्ध्यै, वन्दे सुमित्रतनयं नवमेघकान्तिम् ॥२॥ संप्राप्तशाश्वतपदं विपदां विनाशं, दौलेयलाञ्छनविभूषितपादपीठम् । कैवल्यलोकजननीद्रवरम्यसद्म, वन्दे सुमित्रतनयं नवमेघकान्तिम् ॥३॥
॥ श्रीनमिनाथ-चैत्यवन्दनम् ॥
दृप्यत्कुवादिसमयावनिसारसीरं, मोहान्धकारदलनार्यमणं मुनीशम् । सत्कामनाकलितभक्तिमदेकलभ्यं, भक्त्या नमामि सततं नमिनाथदेवम् ॥१।। छत्रत्रयं शिरसि यस्य विभाति नित्यं, श्वासोऽब्जगन्धसदृशोऽद्भुतमस्ति रूपम् । विध्वस्तमोहमदशोकमुखाद्युपाधि, भक्त्या नमामि सततं नमिनाथदेवम् ॥२॥