________________
७२
पं. श्रीप्रतापविजयविरचितः
निःशेषनाकिनरनाथनताघ्रिपीठः, कामेभपञ्चवदनः सुयशस्तनूजः । गोक्षीरकुन्दधवलामिषरक्तरूपो, देवश्चिरं विजयतां गलिताखिलेच्छः ॥२॥ उत्पाटिताखिलमदादिविरोधिवर्ग, मोक्षाध्वदर्शनदशेन्धनभावमाप्तम् । दर्पातिपातिनमहं परतीथिकानां, तन्नौम्यनन्तभगवन्तमचिन्त्यशक्तिम् ॥३॥
(१५)
॥ श्रीधर्मनाथ-चैत्यवन्दनम् ॥ हन्तुं समस्तघनकर्मततीस्त्वमेव, मातङ्गमण्डलततीर्व मृगाधिराजः । श्रीधर्मनाथ ! परमार्थविधानदक्ष !, दक्षोऽस्यतस्त्वयि वयं गुरुभक्तिभाजः ॥१॥ विज्ञं गिरां गुरुमगाधभवाब्धिपारं, प्राप्तं निरावरणकेवलभासमानम् । ज्योतिर्मयं कुलिशलाञ्छनलक्षितांहि, देवं स्तुमो गुरुगुणं प्रभुधर्मनाथम् ॥२॥ सिद्धः प्रतीतमहिमा भुवनाब्जभानु-र्भव्यात्मबोधकुशलः करुणावतारः । देयाज्जगत्त्रयपतिर्जिनधर्मनाथो-ऽव्याबाधसौख्यपदवीमनघामलोलाम् ॥३।।
॥ श्रीशान्तिनाथ-चैत्यवन्दनम् ॥ स्फूर्जत्कषायदनुजान्वयवज्रपाणिं, श्रेयस्करं परमबोधकरं जिनेन्द्रम् । श्रीविश्वसेनकुलसिन्धुसुधामरीचिं, श्रीशान्तिनाथमनिशं नितरां नमामः ॥१।। पूज्यः कुरङ्गवरलक्षणलक्षितांहि-र्योऽपालयत् प्रथमजन्मनि लोहितांहिम् । यस्य त्रिलोकवलये महिमा प्रसिद्धः, शान्तिः सदा स दिशतात् पदवीमपङ्काम् ॥२॥ एनस्तमोभरहरं भवरोगवैद्यं, सज्ज्ञानपूर्णहृदयं जगदान्ध्यनाशम् । जाड्यापहारनिपुणं जिनभक्तिभाजां, शान्ति नुमो वयमिमं वरधर्मदेशम् ॥३॥
॥ श्रीकुन्थुनाथ-चैत्यवन्दनम् ॥ अज्ञानपांसुपिहिताक्षजगज्जनानां, सद्धर्मपद्धतिगवेषणविह्वलानाम् । सन्मार्गप्रापणरथिप्रतिमं जिनेन्द्र, दीप्रां द्युति कनककान्तिनिभां दधानम् ॥१॥ पूज्यं विनिर्जितमहामदनारिबाणं, वीतस्पृहं विगतसङ्गमभङ्गरङ्गम् । लोकाग्रभागविलसच्चरणारविन्दं, कल्याणकोटिजननं निजभावमग्नम् ॥२॥ क्षान्त्यालयं त्रिभुवनाञ्चितपादपद्मं, छागोपलक्षितपदं भवतापतोयम् । चन्द्राननं क्षपितकर्मविपाककूट, कुन्धुं जिनं प्रतिदिनं हृदये वहामि ॥३॥ त्रिभिर्विशेषकम् ।।