________________
नूतनस्तोत्रसङ्ग्रहः
भव्यात्मनां परमबोधविधानदक्षः, सद्देशनाम्बुविशदीकृतभव्यचेताः । भव्यात्मभृङ्गपरिसेवितपादपद्मः, श्रीसम्भवो जयति वाञ्छितकामधेनुः ॥२॥ स्फूर्जन्मनोवचनविग्रहदुष्टयोग-व्यापारवन्ध्यहृदयो जितशत्रुवर्गः ।। संछिन्नभव्यहृदयान्तरमोहवल्लिः , सेनोद्भवोऽर्पयतु मङ्गलमालिकां मे ॥३॥
(४)
॥ श्रीअभिनन्दनजिन-चैत्यवन्दनम् ॥ भावारिसिन्धुरसमूहमृगाधिराजः, कैवल्यदर्पणविलोकितसर्वभावः । शाखामृगाङ्कललिताघ्रिसरोजयुग्मो, देवोऽभिनन्दनजिनो वितनोतु सौख्यम् ॥१॥ नीरागनिष्कलहनिष्कलुषाऽप्तमुख्या-ऽनीनप्रमादपरिवर्जितचित्तवृत्ते ! । त्वदर्शनेन जिन ! संवरभूपसूनो!, पापं ममाऽखिलमधोमुखतां प्रपन्नम् ॥२॥ भावावभासकमतीतसमस्तदोषं, निःश्रेयसाचलशिलासु सुशोभमानम् । सूक्त्या पराभवितसर्वकुवादिमानं, वन्देऽभिनन्दनजिनं नितरां निरीशम् ॥३।।
॥ श्रीसुमतिनाथ-चैत्यवन्दनम् ॥ यस्याऽन्तिके वसति भक्तिपरामराणां, कोटिर्जरामरणशोकरुजादिशून्यः । विज्ञो विकारपरिवर्जितचित्तनेत्रो, वीतस्पृहो जयति मेघनरेन्द्रसूनुः ॥१॥ रागादिशत्रुगिरिभेदनवज्रकल्पो, दानाभिनन्दितसमस्तजगत्त्रयार्थी । क्रौञ्चाख्यविष्किरकलङ्कितपादयुग्मो, भूयाच्छ्रिये स सुमतिर्भगवाञ्जिनेन्द्रः ।।२।। जैनेन्द्रशासनपयोधिविवर्द्धनेन्दं, कारुण्यसागरमपास्तसमस्तदोषम् । निर्मायमिन्द्रमहितं भगवन्तमाप्तं, कल्याणकेलिसदनं सुमतिं नमामि ॥३॥
॥ श्रीपद्मप्रभजिन-चैत्यवन्दनम् ॥ अज्ञानतामसवितानविघातसूर्यः, पुण्यात्मसन्ततिसमीहितपारिजातः । बुद्ध्या विमानितमहेन्द्रगुरुजिनेन्द्रः, पद्मप्रभो विजयतां शिवदानशौण्डः ॥१॥ दुर्दम्यदुर्जयशिवाध्वसुविघ्नभूत-रागाद्यनेकपरिपन्थिगणप्रणाशम् । हृच्छल्यवृक्षपरिशातनपुण्डरीकं, पद्मप्रभं प्रतिदिनं प्रणमामि भक्त्या ॥२॥ देवेन्द्रपङ्क्तिपरिचुम्बितपादपद्मः, कल्याणकृन्मनितसर्वपदार्थसार्थः । अर्ति निवर्तयत् नो जिनमौलिमौलिः, संसारभिन्मदनजिद् धरराजपुत्रः ॥३॥