________________
६८
पं. श्रीप्रतापविजयविरचितः
॥ १. श्रीचतुर्विंशतिजिनचैत्यवन्दनानि - १ ॥
॥ श्रीआदिनाथ-चैत्यवन्दनम् ॥ ऐन्द्रावलिप्रणतपादपयोजयुग्मं, वाचांपतिं वृजिनवृन्दहरं जनानाम् । आह्लादनं भुवनलोकविलोचनानां, श्रीनाभिराजसुतमाप्तमहं नमामि ॥१॥ श्रीनाभिपार्थिवकुलार्णवशीतभा, दुष्कर्ममाथकमपापमपारिजातम् । सद्धर्मवाचकमजं गतकामतापं, कल्याणवृक्षवनपल्लवनाम्बुवाहम् ॥२॥ प्रौढप्रतापभवनं भुवनैकबन्धु, सम्मोहतामसवितानविनाशहंसम् । गीर्वाणमौलिमणिचर्चितपादपीठं, कुन्दावदातयशसं जिनमाद्यमीडे ॥३।। युग्मम् ।।
(२)
॥ श्रीअजितनाथ-चैत्यवन्दनम् ॥ बाह्यान्तरारिनिकरक्षतिधूमकेतु-श्चामीकरोज्ज्वलरुचिर्जनितप्रमोदः । चन्द्रः प्रहर्षजलधौ शमयूषलीनः, कन्दर्पजिद् विजयतामजितो जिनेन्द्रः ॥१॥ निर्दूषणं निखिलविष्टपरक्षितारं, त्रैलोक्यलोकगणबान्धवमाप्तमुख्यम् । निःशेषलोकनरनेत्रचकोरचन्द्रं, वन्दे मुदा प्रतिदिनं जितशत्रुपुत्रम् ॥२॥ पापं विधूय पदमव्ययमाप योऽत्रा-ऽत्रासोद्भुतातिशयसंहतिभूरिशोभः । तारङ्गतीर्थतिलकः करटीन्द्रलक्ष्मा, देवोऽजितो दिशतु वाञ्छितसर्वसिद्धिम् ॥३।।
॥ श्रीसम्भवनाथ-चैत्यवन्दनम् ॥
सौवर्णवर्णपरिशोभितदिव्यदेहं, वाजीन्द्रलक्ष्मपरिभूषितपादयुग्मम् । पापाद्रिपेटकविदारणदीप्रवणं, संस्तौमि सम्भवजिनं सुरसङ्घसेव्यम् ॥१॥