________________
स्तुतिकल्पलता
॥ २१. गुप्तक्रियापदमाचार्याष्टकम् ॥ गुप्तेन्द्रियं सकलशास्त्रमहाब्धिमन्थ-बुद्धिप्रभावसमवाप्तपवित्रबोधम् । *गुप्तक्रियापदमयेन च मुक्तकेन, श्लोकाष्टकेन महयामि सुमेन नेमिम् ॥१॥ श्रीवीरनाथवरवाक्यरसानुसारिन् !, मिथ्याप्रपञ्चरचनारहितप्रचार !। दुर्बोधलोकवरबोधकरप्रताप !, चारित्रपात्र ! सततं शरणं चते त्वाम् ।।२।। श्रीदेहकान्तिकलनाविधुरेव साक्षाद, द्राक्षाभवाक्यरसकप्रथितप्रभाव ! । श्रीमन्नयावलिविदाप्रतिमाकृते ! त्वं, भद्रङ्कर ! प्रतिदिनं शमशान्तवृत्ते ! ॥३॥
क्रियागुप्तादिलक्षणं - क्रियादिकं स्थितं यत्र पदसन्धानकौशलात् । स्फुटं न लभ्यते तच्च क्रियागुप्तादिकं यथा ॥ क्रिया इति क्रियापदं गुप्तं यस्मिन् तत् क्रियागुप्त आदिर्यस्मिन् तत् क्रियागुप्तादिकम् । आदिशब्देन "क्रियाकारकसम्बन्धगुप्तान्यामन्त्रितस्य च । गुप्तं तथा स्तिवाद्यस्य लिङ्गस्य वचनस्य च", सुप्तिपस्य द्वयस्य वचनस्य च । कारकशब्दे 'कर्ता कर्म च करणं सम्प्रदानं तथैव च अपादानाधिकरणमित्याहुः कारकाणि षट्' । राजन्नवघनश्यामनिस्त्रिंशाकर्षदुर्जयः । आकल्पं वसुधामेतां विद्विषोधरणे बहून् । पुंस्कोकिलकुलस्यैते नितान्तमधुरारवैः । सहकारद्रुमा रम्या वसन्ते कामपि श्रियम् ।
राजन्नवघनश्याम इत्यत्र 'अव', विद्विषोधरणे इत्यत्र 'ध', नितान्तमधुरारवैरित्यत्र 'अधुः' ॥ श्लोक-२ भ्वाधुभयपदिनश्चतेगू याचन इत्यस्य अस्मदर्थैकवचने चते इति रूपम् । श्लोक-३ भवाटियाणा
भ्वादिगणपठितपरस्मैपदिनः अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमनप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनाहिंसादहनभासवृद्धिषु इत्यस्य पञ्चमीविभक्त्याः हौ प्रत्यये परे अव इति रूपम् । अथवा भ्वादिगणपठितत्वेन डुकंग करणे इत्यस्य पञ्चम्यां ही प्रत्यये परे कर इत्यपि रूपमत्र गुप्तक्रियापदतया बोध्यम् ।