________________
प्रवर्तक-मुनिश्रीयशोविजयविरचिता यत्पादपङ्कजमथो विबुधाश्रयस्स्यात्, पापौघशान्तिकरणं हरणं मदस्य । पुण्यप्रभावपरिबोधितभिल्लवृन्दं, तं नेमिसूरिवरमाप्तवरं प्रणव्यम् ॥४॥ कस्येह दुःखभरनाशकरा यदीय-वाणी न च श्रुतिसुखा विबुधाग्रगानाम् । सौख्यालयं विबुधजातविवन्दितं तं, श्रेयोनिधि समयवेदकमाप्तसूरिम् ।।५।। यद्ध्यानभाजस्सततं मनुष्या, यस्योपदेशाच्छिवराजमार्गम् । प्रापन्ति सौख्यालयमाप्तदीप्तं, सूरिं तु तं सौख्यकरं महेनम् ॥६॥ श्रीनेमिसूरीश्वरराजमुख्य !, पुण्यौघराजाऽथ दिने दिने मे । भूमण्डलेऽवद्यविमुक्तदेह !, श्रीवीरभक्तांहसमेव पूज्य ! ॥७॥ नेमे ! बुधस्याऽऽप्तभवाब्धिपोत !, पापानि दुःखैकनिबन्धनानि । कल्याणवल्लीसुविताननाब्द !, शश्वद्यशोवृद्धिवितानक ! त्वम् ।।८।।
श्लोक-४
श्लोक-५
श्लोक-६
भ्वादिगणपठितोभयपदिनः श्रिग् सेवायामित्यस्याऽऽङ्यूर्वकस्य पञ्चमीविभक्त्यां हिप्रत्यये परे आश्रय इति रूपम् । श्रीमद्धेमचन्द्राचार्योक्तस्य प्रथमाध्यायस्य तृतीयपादपठितेन "अदीर्घाद्विरामैकव्यञ्जने" इत्यनेन असंयुक्तव्यञ्जने यकारे परे सकारस्य द्वित्वं वेदितव्यमत्र । भ्वादिगणपठितपरस्मैपदिनः इंदुं दुं शुं तूं गतौ इत्यस्य पञ्चमीविभक्त्यां ही प्रत्यये परे सम्पूर्वकस्य समय इति रूपमत्र गुप्तक्रियापदतया वेदितव्यम् । भ्वादिगणपठितपरस्मैपदिनः अर्ह मह पूजायाम् इत्यस्य पञ्चम्यां हौ परे मह इति रूपम् । 'महेन'मित्यत्र "पतीन्द्रः स्वामिनाथार्यः प्रभु र्तेश्वरो विभुः ईशितेनो नायकश्च" इत्यभिधानचिन्तामणिपठितः स्वामिवाचकः इनशब्दो बोध्यः । दिवादिगणपठितपरस्मैपदिनः दों छोंच् छेदने इत्यस्य धातोरवपूर्वकस्य पञ्चम्या विभक्त्या हौ प्रत्यये परे अवद्य इति रूपमत्र वेदितव्यम् । दिवादिगणपठितपरस्मैपदिनः षोंच अन्तकर्मणि इत्यस्य धातोः पञ्चम्या विभक्त्या हौ प्रत्यये परे "ओत: श्ये" इति औकारलोपे कृते 'स्य' इति रूपमत्र ।
श्लोक-७
श्लोक-८
॥ इति सारासारविचारचातुरीचमत्कृतसहयहृदय-श्रीमद्विजयनेमिसूरिशिष्यप्रवर्त्तकयशोविजयप्रणीतं
गुप्तक्रियापदमाचार्याष्टकं स्वगुरुस्तोत्रं समाप्तम् ॥