________________
प्रवर्तक-मुनिश्रीयशोविजयविरचिता
॥ २०. द्वितीयान्तपदमाचार्याष्टकम् ॥
श्रीनेमिसूरिं गतदोषसङ्गं, मेघौघगम्भीरविनादचङ्गम् । स्फूजत्प्रभावं गुणिलोकनन्दं, श्रेयोनिधि स्तौमि वरं मुनीशम् ॥१।। लावण्यगेहं सुखसस्यमेघ-मज्ञानदावानलदाहनीरम् । भव्यावलीसेवितपादपद्मं, श्रीनेमिसूरिं प्रणमामि धीरम् ।।२।। सिद्धान्तशास्त्रावलिमर्मबोधं, संसारनीरेश्वरपारपोतम् ।। विश्वोपकारं गुणिलोकसारं, श्रीनेमिसूरिं प्रणमामि धीरम् ॥३।। विश्वे प्रपूज्यं शमशान्तवृत्ति, सद्बोधदातारमतिप्रधानम् । तीर्थङ्करस्तोत्रविलुब्धचित्तं, श्रीनेमिसूरिं प्रणमामि धीरम् ॥४॥ श्वेताम्बरौघाब्धिविकासचन्द्रं, दुःखानलौघप्रशमाब्दतुल्यम् । मायात्रियामारविभासपक्षं, श्रीनेमिसूरिं प्रणमामि धीरम् ।।५।। श्रीमत्तपोगच्छसुराध्वसूर्य, शुभोपदेशामृतवारिवाहम् । श्रीसज्जनैर्वन्दितपादपद्मं, श्रीनेमिसूरिं प्रणमामि धीरम् ॥६॥ कल्याणविध्वंसकमोहरेणु-ध्वंसप्रचण्डानिलसोदरं च । बिभ्राणमाप्तं स्थिरतामुदारां, श्रीनेमिसूर प्रणमामि धीरम् ।।७।। कल्याणवारीश्वरवृद्धिचन्द्र-माचारमार्गौघनिरूपकं तम् । श्रीवीरवाक्यानुविधायकं च, श्रीनेमिसूरिं प्रणमामि धीरम् ।।८।। वीरं सदा दुर्नयपङ्कजाली-प्रालेयकल्पातुलवाग्विलासम् । पूज्यं यशोवाधिविकासचन्द्रं, श्रीनेमिसूरि प्रणमामि धीरम् ।।९।।
इति पदवाक्यप्रमाणपारावारपारीणा-ऽऽचार्यवर्य श्रीमद्विजयनेमिसूरीश्वरशिष्य
प्रवर्तकयशोविजयप्रणीतं द्वितीयान्तपदमाचार्याष्टकं समाप्तम् ।।
891