________________
स्तुतिकल्पलता विषयव्याधिनिर्मुक्तं, शुद्धसिद्धान्तदेशकम् । निस्पृहं नाथमेकं तं, स्तुवे श्रीनेमिसूरिणम् ॥९८।। घटिकादिवसावद्य, सफलत्वमवापतुः । वाणी मे सफला चाऽद्य, त्वन्नुतिं यत् समाश्रिता ॥९९।। त्वद्भक्तिलीनचित्तोऽहं, स्तवमीहे सदा तव । तथाऽप्यज्ञतया नाथ!, वाग्दोषाद् विरमाम्यहम् ॥१००।। ज्वलत्तमरुषानलप्रशमवारिपूरस्य त, इतिस्तवपरस्य संकलितदोषवृत्तेर्मम । गुणा हृदयतोषदा भविकबुद्धिभासोदया, भवन्तु सुखदायकाः पृथुभवामयोच्छेदकाः ॥१०१।। श्रीमच्चान्द्रकुलोदधिप्रविलसच्चन्द्रोदयस्य व्यधात्, श्रीमन्नेमिविभोः स्तवं निजगुरोः प्रौढप्रभावोन्नतेः । शिष्यस्तद्गुणरञ्जितस्त्रिभुवनप्रख्यातकीर्तेर्मुनि-स्तस्य प्रीतिभराद् यशोविजय इत्याख्यो बुधानां मुदे ॥१०२॥ त्रायं त्रायं त्रिभुवनहितं सैष चारित्रतन्त्रं, नायं नायं नयमतिमहं श्रीगुरुं स्वान्तपद्मे । गायं गायं गुणगणनिधि नेमिसूरि सदाहं, श्रायं श्रायं श्रितगुणगणं श्रीजिनं सञ्चरामि ॥१०३।। यस्मिन् भूरिगुणाकरे पुरवरे भावाभिधानेऽभवद्, विद्वत्कैरवपूजितस्य सुगुरोः श्रीनेमिनाम्नः प्रभोः । योग्यं सूरिपदं ममाऽपि समभूद् यत्नः फलावाप्तिमान्, श्रीनेमीश्वरसूरिराज्यसमये तत्रैव तद्भक्तितः ॥१०४|| सूरिस्तोत्रमिदं यशोविजयकश्चक्रे शतश्लोककं, चातुर्मास्यनिवासमाप्य युगवल्यब्धिद्विसंख्यामिते(२४३५) । वर्षे वीरशिवाप्तितः परिगते भाद्रे सिते पञ्चमी-तिथ्यां पुण्यमहानिशीथसमयस्योद्घोद्घयोगं वहन् ॥१०५।। अन्यूनश्रमहृद्यपद्यरचनाचाराः क्षितौ सन्ति ये, वाग्देवीं समुपास्य तत्त्वकलनाभ्यासप्रपूर्णा बुधाः । ते धन्याः परदोषकीर्तनविधौ मूका इवाऽहर्निशं, जानन्त्येव हि ते स्खलन्त्यपि बुधा मार्गेऽपि सञ्चारिणः ॥१०६।। स्तोकश्लोकमुदारवृत्तरचितं सम्प्राप्य ये कुर्वते, भूताविष्टमनोभिरुज्झितभयाः भूयश्चतुष्पादिकाम् । तेऽनल्पा इह सन्ति मन्दमतयः प्रोदूढगर्वा भुवि, धन्यास्ते कवयो जयन्ति भुवने ये शक्तिमन्तः स्वयम् ॥१०७|| ये मर्त्याः प्रपठन्ति सूरिनवनं कल्याणकेलीगृहं, ते विज्ञानमवाप्य धर्ममतुलं सम्प्राप्नुवन्ति स्थिरम् । लोके ख्यातिमुदारतां बहुधनं सम्प्राप्य भूयोभव-भ्रान्त्युच्छेदि भजन्ति चाऽन्तसमये चारित्रमत्युज्ज्वलम् ॥१०८।। ॥ इति श्रीकुन्देन्दुहारघनसारकाशकुसुमनीरक्षीरमरालमृडालादिकान्तिप्रतिपक्षक्षोणीमण्डलप्रतायमानकीर्तिपुण्डरीकस्य सहस्रकिरणसहस्रप्रभाभासमानप्रतापानलज्वालापटलपतङ्गायमानक्रोधादिगणस्य महोपदेशामृतनिर्झरसेचनपल्लवितजिनधर्मामृतफलदानशौण्डीरकल्पवृक्षस्य श्रीमद्विजयनेमिसूरीश्वरस्य पादसरोरुहप्रचलन्मक
रन्दरसास्वादतुन्दिलमानसमिलिन्देन यशोविजयेन प्रणीतं स्वगुरुसूरिशतकं समाप्तम् ।।