________________
६०
प्रवर्तक-मुनिश्रीयशोविजयविरचिता यत्स्याद्वादपयःपवित्रमनसो मा अमत्त्यैरपि, भ्राम्यन्ति भ्रमबोधभावविरहाः श्रीवन्धपादा भुवि । सद्बोधांशुनिरस्तमोहतमसं पाखण्डदोषापहं, श्रीनेमिं प्रणतोऽस्मि तं मुनिवरं भक्त्या त्रिधा सूरिणम् ॥८१॥ भूमीमण्डलमौलिरत्नसदृशं प्रेमप्रवृद्धाननो, विद्वच्चित्तचमत्कृतिप्रदमरं स्वाज्ञानजालापहम् । भक्त्या विग्रहधारिधर्ममिव तं प्रास्तप्रपञ्चं मुनिं, सूरि स्वीयगुरुं नमामि मतिदं श्रीनेमिकल्पद्रुमम् ॥८२।। भिन्दानो दृढसंशयान् नयपदे सद्यः प्रमादोच्चयं, छिन्दानो भविनां क्रियासु सहसा पाखण्डवादोद्यमम् । कुर्वाणो विफलं मधुद्रवसखैर्वाक्यजिनेन्द्रागमे, विन्दानोऽतिबुधत्वकीर्त्तिमतुलां जीयात् स नेमिप्रभुः ॥८३।। श्रीनेमीश्वरसूरिराज! तुलनां युष्मत्प्रतापस्य सं-प्राप्तुं व्योमवने विधाय तपसं सोऽप्राप्य तां किं न्वयम् । सायं वाडवजातवेदसि पतत्यनारकल्पो यतः, प्रातः प्रातरयं सदोदयगिरौ सूर्यो दरीदृश्यते ॥८४|| धर्मीयोजनधर्ममर्मदिशकः श्रीधर्मवर्मा नृषु, धर्माचार्यवरो नरोदधिसुतः श्रीधर्मवृद्धो भुवि । निर्मायो महितो महैर्महिमहिः श्रीमारमारो मुनी, राद्धान्तोदधिरम्यरामरसिकः संराजते सम्प्रति ॥८५|| गुणानामावासो विहितहितदृष्टिश्च भविषु, निजब्राह्मीरज्ज्वा कुगतिपतितानुद्धरति यः । समस्तश्रीसङ्घानतपदयुगः प्राप्तविभवो, गणाचार्यो वर्योऽयमसमसुखं नो वितरतु ॥८६।। सदाशोका लोकास्तव चरणचार्वब्जशरणाः, सुखास्वादामादा भवविरतिशान्त्युन्मुखहृदः । भवक्रीडाव्रीडा भुवि भविकपूज्या नरवराः, प्रतापाद् व्यापात् ते सुखमनुभवन्ति क्षितितले ॥८७।। अशान्त्या दुःखार्त्तान् निजशिशुसमूहाश्च विदिशा-मनुप्राप्तान् दृष्ट्वाऽखिलभुवनदेवी द्युतिवहा । यशः श्रीदानार्थं सुकलितपदा यत्र किमिव, पदप्राप्त्युद्धर्षस्तव दिशतु सूरीश! स शिवम् ॥८८॥ अतुल्यामूल्यान् ते विबुधहृदयाकर्षणपरान्, गुणान् स्मारं स्मारं सकलविबुधा विस्मयपथम् । न गच्छन्ति स्यन्ति प्रसितबहुपापानि न च क, इति त्वं सर्वेशो जगति विजयस्व प्रतिदिनम् ॥८९।। स्वयम्बोधाच्छोधाज्जिनवचनरागैककुशलं, पवित्रं चारित्रं जननभनभाके नभमणिम् । अलाय्यत्रायि द्राक् शिशुवयसि येनाऽहमधिकं, नमामि स्वामीनं विभुविजयनेमि तमनिशम् ॥१०॥ तवाऽऽलम्बादापद्विषममतुलक्रोधदहनं, स्फुरत्तृष्णाजालाचितमविदितान्तं भववनम् । समापन्ना दूना विषयबहुलज्वालपटलैः, परं पारं प्राप्तुं मुनिवर ! भवन्त्येव निपुणाः ॥९१।। अहो भव्याः शोकं त्यजत घनपाखण्डतमसा, परिभ्रष्टे मार्गे शरणमिह किं स्यादिति मुहुः । अयं नव्यो भानुः समुदयति सर्वान्धतमसं, स्मृतोऽपि व्याकर्षन् पदनखमिषान् नेमिसुगुरोः ॥१२॥ सुधासौन्दर्याढ्यं तव वचनमास्तां मम मुदे, विशाले संसारे विषयमृगतृष्णापरिचयात् । मुहुर्धामं भ्रामं बहुतरपिपासाकुलतनो-हरन् मोहग्लानि भवपथिकखेदं प्रशमयन् ॥९३।। अरे काम! त्वं किं विसृजसि शरान् व्यर्थमधुना, स्फुरच्छास्त्रव्राताद् घनमनभिभेद्यं सुकवचम् । जनाः प्राप्ताः श्रीमद्वरविजयनेम्याह्वयगुरो-जिनप्रोक्ताचारप्रचरणसमाई दृढतरम् ॥१४॥ हतो मोह! क्रोधश्शममुपगतो लोभ ! कतरो, भवान् स्थातुं मत्र्ये व्रज विषयतृष्णे ! त्वमधुना । कले! कस्ते दर्पः प्रसरति मुनेर्देशनमहा-भटे श्रीमन्नेम्याह्वयविबुधवर्यस्य परितः ॥९५।। स्फुरन्मोहनिदाघार्ति, शमयन् स्ववचोऽमृतैः । श्रीनेमिसूरिमेघोऽयं, पुष्णातु शुभवल्लरीम् ॥९६।। मद्दीक्षादायकं सूरिं, शिक्षालापकमेव च । प्रेमप्रकर्षकव्यक्त्या, भक्त्या तं प्रणतोऽस्म्यहम् ॥९७।।