________________
५८
प्रवर्तक-मुनिश्रीयशोविजयविरचिता
सुमतिधाम नरेश्वरबोधदो, विजितपञ्चशरादिभटव्रजः । विजयनेमिगुरुः सुगुणाकरो, भवतु हंसगतिः सुखकारकः ॥४७।। प्रबलवस्तुविवेकतिरस्कृतो, न हृदये तव राग उदेष्यति । इति विचिन्त्य तवाऽधरपल्लवे, तमनयद् विधिरीड्यगुणव्रज! ॥४८॥ कमलकाम्यविलोचनविद्रुमा-धरदलं दलयन्तमघव्रजम् । विपुलशारदचन्द्रमुखं पुनः, प्रवरसंवरसूरिमहं स्तुवे ॥४९।। मम समीहितकल्पतरुं गुरुं, जगति पल्लविताग्ययशश्चयम् । दधतमागमसारफलोच्चयं, विमलवाक्कुसुमप्रकराञ्चितम् ॥५०॥ दुरिततापितसंसृतिकानन-भ्रमणतान्तिहरं पदसेविनाम् । विततशाखमुदारविनेयकै-विजयनेमिमुनि महयाम्यहम् ॥५१॥ समुचितकृतिको यः प्राज्ञलोकेषु शश्व-निरुपमसुखराजीहेतुरालस्यनाशी । सकलसुकृतिलोकासेव्यमानक्रमाब्जो, भवतु भविनराणां सोऽत्र सौख्याय सूरिः ॥५२॥ तव वचनहलीषा नैव चेन्मादृशानां, विकृतहृदयभूमेः शुद्धिसम्पादिकेयम् । न भवति च तदानीमीदृशानामशुद्ध्या, शुभफलसमवाप्तिः सौख्यदूतेः समाना ॥५३|| तव वचनमतल्ली मादृशानां जनानां, त्रिभुवनजनमान्या शान्तिसौख्याभिरम्या । विगतदुरितभारा दोषनाशेन सारा, हृदयवरपदेऽसौ राजमाना सदाऽस्तु ॥५४।। दिनपतिरिव नित्यं यः प्रमोहान्धकार-क्षपणकर उदेति प्राप्तपुण्यप्रकर्षः । जगदमरपथे स त्रायकः पापकूपाद्, भवतु भविजनानां नेमिसूरिः सुखाय ॥५५।। कुनयविपिनभङ्गे मत्तमातङ्गकल्पा, निखिलभविकलोकानन्ददा यस्य वाणी । परिभवति विनिर्यन्माधुरी धैर्यसारा, तुहिनकररसौघं नेमिसूरिः स जीयात् ॥५६।। यः स्वीयदीव्यन्निटिलच्छलान्नृणां, दुम्र्मोहरात्रिप्रभिदानिबन्धनम् । सूर्यं दधति प्रलसन्तमाकरः, सूरिर्गुणानां भवहानयेऽस्तु सः ॥५७|| यः कर्मपङ्केऽस्ति निदाघकल्पो, दुर्वादिपञ शशिभासकल्पः । अक्षान्तिदोषागणभानुकल्पो, जीयात् स सूरिर्जनबोधकल्पः ।।५८।। दुर्बोधनाशं व्यधित स्वशक्त्या, पूर्णस्तु यो जैनमतानुरक्त्या । तं भूषितो यः शुभकर्मपक्त्या, स्वाचार्यवर्यं प्रणमामि भक्त्या ॥५९।। यो रक्तभासक्रमजच्छलाद् दु-र्मोहान्धकारप्रलयाय धत्ते । सोऽयं तु सन्ध्यारुणचन्द्रलेखां, सौख्याय भूयाद् भयनाशनो मे ॥६०॥ क्रोधोग्रदन्तावलदन्तघात-विधानदक्षातुलभाविलासाम् । ज्योत्स्नां क्षमेन्दोः प्रबिभर्ति सूरि-र्यो दन्तजातच्छलतः स जीयात् ॥६१।। नाथं नेमि सूरीशानं, मोहोद्भेदं क्रोधच्छेदम् । लोकानन्दं काव्याकन्दं, वन्दे वीरं विश्वे धीरम् ॥६२।। लोकाश्रेयं सर्वाजेयं, सूरिं ध्येयं ज्ञातज्ञेयम् । भक्त्याऽऽदृत्यं सर्वस्तुत्यं, वन्दे नित्यं दत्तौन्नत्यम् ॥६३।।