________________
स्तुतिकल्पलता
५७
त्वन्नामगारुडं मन्त्रं, मोहाहिविषघातकम् । इच्छामि सर्वदा भद्रं, त्वत्स्तुत्येकपरायणः ॥३०॥ विनयं विनयाधारं, सूरिणं सूरिणं मुदा । विनयो विनयग्राही, विनतो विनतोऽस्मि तम् ॥३१॥ विधूतविधिकव्याधि, विदा विदारकं विदाम् । विकारविक्कुविक्रान्तं, विदितं विदितं विदाम् ॥३२॥ रुजा भीतैर्यथा वैद्यो, व्याघ्रभीतैरिवाऽनलः । तापतान्तैर्यथा वृक्षो, वह्निभीतैर्यथा जलम् ॥३३।। जाड्यभीतैर्यथा सूरिः, पापभीतैर्यथा जिनः । यथा गुहा वर्षभीतैः, शरभः सिंहभीतिभिः ॥३४।। सिन्धुभीतैर्यथा नौका, सर्पभीतैस्तु गारुडः । भयभीतिसमाक्रान्तै-स्त्वमस्माभिः समाश्रितः ॥३५॥ [त्रिभिर्विशेषकम्] समुपार्जितपुण्यौघं, पोषयित्नुं नयावलेः । वन्देऽहं परया भक्त्या , विजयनेमिसूरिणम् ॥३६।। जय नेमिविभो! प्रभो ! ममा-ऽमतिमोहप्रविमर्दक! क्षणात् । तव सङ्गमृते जना मनाग, न भवाब्धि प्रतरन्ति तेऽप्लवाः ॥३७।। भजते तु विरक्तमानसं, मुनिमन्यो गुणधाम सादरम् । प्रभजाम्यहमुद्यतप्रभं, क्रमयुग्मं दृढरागमेव ते ॥३८।। न च कैर्महनीयतां गतः, परमां त्वं नयमानतत्त्ववित् ! । अविवेकिजने मयि प्रभो!, त्वमथो देहि विवेकसंस्तवम् ॥३९॥ शशिसौम्यमुखाकृते ! सदा, सुखमेधस्व मुनीश्वराऽसमम् । तव पादमृते न च प्रभो !, शरणं यद् भवभीमपावके ॥४०॥ अयमाप्त ! तवाऽनलद्युति-स्त्रिजगत्सञ्चरणेऽप्यकुण्ठितः । भविमोहतृणोत्करं दहन्, सुजने शीततरः प्रतापकः ॥४१।। त्वमसि सप्तभयोदधितारक-स्त्वमसि विश्वजनोदयकारकः । त्वमसि भव्यजनप्रतिपालक-स्त्वमसि बुद्धिविवृद्धिकरः परः ॥४२॥ त्वमसि शासनरक्षणतत्पर-स्त्वमसि धर्मधनः पुरुषोत्तमः । त्वमसि दर्शनहर्षितसज्जन-स्त्वमसि गच्छनियामकतल्लजः ॥४३।। त्वमसि शीलविभूषणधारक-स्त्वमसि सद्बतभारधुरन्धरः । त्वमसि मर्त्यनतो भुवि वत्सल-स्त्वमसि नेत्रसुधारस एव च ॥४४|| त्वमसि भद्रकरः करुणानिधि-स्त्वमसि भीतिहरः परमो मुनिः । त्वमसि सञ्चितपुण्यभरो वर-स्त्वमसि सूरिपदप्रविराजितः ॥४५।। पदयुगं तव वर्णयितुं कथं, कथय सूरिवर ! प्रभवाम्यहं । भजति शीतकरः कमनीयता-मधिजिगांसुरमुं नखकैतवात् ॥४६।।