________________
४६
प्रवर्तक-मुनिश्रीयशोविजयविरचिता
॥ १५. श्रीवीरचित्रकाष्टकम् ॥
छत्रबन्धः (पद्मबन्धोऽपि )
अविदितगुणमानं सर्वदा भासमानमकलितमहिमानं ध्वस्तमोहाभिमानम् । विहितमदनमानं शान्तिसंशोभमानं, प्रकटितपटिमानं नौम्यहं वर्धमानम् ॥१॥
धनुर्बन्ध :
वीरं नमामि विपदां दलनं दयालु, घोरान्धकारविधुरान् विविधोपतापान् । पापान् समुद्धरति यो जितभाववैरी, दर्पोद्गमप्रशमनं जगदेकसारम् ||२||
खड्गबन्धः धीरं वीरं वरं देव, देवमावसथं श्रियाम् । यद्दर्शनमघध्वंसि, सर्वदा तं जिनं स्तुवे ||३||
द्वाभ्यां श्लोकाभ्यां खड्गबन्धः सारशौर्याप्तमोक्षश्री-जितकाममहारिपुः पुण्यकेलिगृहं वीरः, क्रान्तविश्वः स्वतेजसा ||४|| सानुकम्पो भवच्छेदी, शक्रसन्दत्तवाससा । सारं संशोभमानो मां, पातु पापात् प्रभद्रकः ॥५॥
शरबन्धः सर्वदा दारितोन्मादं, सर्वर्द्धिधिषणैर्नुतम् । वन्दे वीरं महाधीरं, भवसत्रत्रसन्नतम् ॥६॥