________________
४२
प्रवर्तक-मुनिश्रीयशोविजयविरचिता अथैकोनविंशत्यक्षरपादमतिधृत्यां फुल्लदामवृत्तम् ये नित्यं श्रीमज्जिनवरवृषभं फुल्लँदामप्रकाण्डै-भक्त्याऽव॑न्तीशं विगतभयभरं तीर्थनाथं तु वीरम् । तेऽर्च्यन्ते भव्याः सुरवरततिभिः पूर्णकामा अकामाः, स्तुत्वा स्तूयन्ते सुरनरवृषभैर्यान्ति मोक्षं च शश्वत् ॥३२॥
अथ विंशत्यक्षरपादं कृत्यां गीतिकावृत्तम् बहुलानुरागसुरासुराच्चितपादपङ्कजमादरात्, परिषेवते जिन ! यस्तवाऽमलभक्तितो जगतीतले । गुणशंसिनी किल तस्य देव ! नरेन्द्रवक्त्रविनिर्गता, भुवनत्रयेऽपि विलासमेति जनस्य नाथ ! सुंगीतिका ॥३३।।
अथैकविंशत्यक्षरपादं प्रकृत्यां स्रग्धरावृत्तम् कैलासोद्दामकान्तिस्फुरदमलतलन्यस्तचित्रोपलाढ्ये, भव्यस्तोत्रावलीसम्मुखरितककुभि स्वान्तपद्मार्करोचिः । नानालङ्कारहारिण्यघदलनकरी वीर ! मूर्तिस्त्वदीया, प्रोद्यद्दीप्रप्रभाढ्यामलमणिनिकर स्रग्धरा हन्तु पापम् ॥३४॥
अथ द्वाविंशत्यक्षरपादं कृत्यां मदिरावृत्तम् ये मदिरांसुहिता मनुजा न भजन्ति तवाऽङ्घिसरोजयुगं, ते जिन ! निर्गतपुण्यभरा भयभारसुदुःखितमानसकाः । शश्वदशेषशरीरिविशारणकारणचिन्तननद्धहृदो, नो गणयन्ति परोपकृति न विदन्ति गुणं न भजन्ति सुखम् ॥३५।।
अथ चतुर्विंशत्यक्षरचरणं संकृत्यां दुर्मिलवृत्तम् प्रणिधाय भवत्पदपङ्कजमीश ! जिनेन्द्र ! भवामयभेदकरं. ससुरासुरमर्त्यनतं सततं परिदुर्मिमलमोक्षसुखप्रददम् । लभते सकलः खलु सौख्यमनन्तमिहाऽपि परत्र च किं बहुना, प्रणत: सकृदप्यमरैः पुरुषः सततं महितो भवति प्रणयात् ॥३६।।
३०. स्यान्माख्यः पूर्वं तगण इह ततो नेन हृद्यः परस्तात्, तस्मात् साख्यश्चेद् रगणसुवलितो रेण नद्धं पुनश्च ।
तस्माद् गो यस्मिन् विबुधजनगणैः सेवितं सद्गुणाढ्यं, ज्ञेयं प्राजस्तच्छरहयतुरगैः फुल्लदामाभिरामम् ॥
उद्दवणिका यथा - ऽऽऽ ऽऽ। || ||5 515 515 5 ३१. सजजान्विता भरसाश्रिता लगभूषिता खलु गीतिका || अन्यत्राऽप्युक्तं -
वरपाणिशोभिसुवर्णकङ्कणरत्नरज्जुविभूषिता, सुपयोधरा पदसङ्गिनूपुररूपकुण्डलमण्डिता । फणिराजपिङ्गलवर्णिता कविसार्थमानसहारिका, वरकामिनीव मनोमुदे नहि कस्य सा खलु गीतिका ॥ उट्टवणिका यथा - ॥5 ।।
ISI SII SIS 115 IS ३२. लोकैश्छिन्ना त्रिकृत्वो मरभनयययैः सुन्दरा स्रग्धरेयम् ॥ अन्यत्राऽप्युक्तं -
कर्णं ताटङ्कयुक्तं वलयमपि सुवर्णं च मञ्जीरयुग्मं, पुष्पं गन्धं वहन्ती द्विजगणरुचिरा नूपुरद्वन्द्वयुक्ता । शङ्ख हारं दधाना सुललितरसना रूपवत्कुण्डलाभ्यां, मुग्धा केषां न चित्तं तरलयति बलात् स्रग्धरा कामिनीव ।।
उट्टवणिका यथा - 555 515 || III 155 155 155 ३३. सप्तभकारयुता सगुरुर्गदितेयमुदारतरा मदिरा ॥ उट्टवणिका यथा - 5| | | | | || ॥ 5 ३४. सगणौ सगणौ सगणौ सगणौ यदि दुम्मिलमेतदवेहि तदा । अन्यत्राऽप्युक्तम्
विनिधाय करं गुरुरत्नमनोहरबाहुयुगं कुरु रत्नधरं, च ततः कुरु पाणितलं वरपुष्पयुगं विनिधाय गुरुम्(?) || इति दुम्मिलका फणिनायकसंरचिता किल वर्णविलासपरा, चतुराश्रितविंशतिवर्णकृता कविता सुकृताश्रयशिल्पधरा ।। उट्टवणिका यथा - ||७ ॥ ॥ ॥ ॥ऽ ।ऽ ।ऽ ।ऽ