________________
४१
स्तुतिकल्पलता
अथ षोडशाक्षरपादमष्टयां चित्रवृत्तम् चित्रचित्तवृत्तयो विबाधयन्ति दुःखभेद !, मां विभो ! न विश्वमेतदेव देव ! सारमस्ति । त्वत्पदाब्जभक्तिरस्तु चित्तधाम्नि वस्तुतस्तु, नाऽन्यदत्र भूतले लषामि सारवस्तु नाथ ! ॥२६॥
अथ सप्तदशाक्षरपादमत्यष्ट्यां हरिणीवृत्तम् तव पदयुगं ज्ञानोद्रेकप्रदायि भजन्ति ये, भवति तृणवत् संसारोऽयं जिनेन्द्र ! महात्मनाम् । चकितहरिणी नेत्रा वामभ्रुवश्च मनोहरा, नहि न च धनं तेषां लोभाय वीतरजोहदाम् ॥२७||
अथ सप्तदशाक्षरपादमत्यष्ट्यां पैथ्वीवृत्तम् महामहिमभासुराच्चितसमस्तपृथ्वीश्वरैः, सुदेशनवचोऽमृतैर्जनितचन्द्रमोन्यक्कृतिः । विलोचनविभाजितातिचलखञ्जरीटप्रभा, मनो हरति कस्य नो तव मुखप्रभा साऽमला ॥२८॥
अथाऽष्टादशाक्षरपादं धृत्यां शार्दूलललितवृत्तम् बिभ्रन्मोहमृगादिदर्पदलने शार्दूलललितं, कुर्वल्लोकहृदब्जबोधमनिशं त्वद्वाक्यनिकरः । उद्यद्भास्करवत् सुरासुरनराभिस्तव्यचरण !, जीयाद् देव ! महोपकारचतुरो द्राक्षासमरसः ॥२९॥
अथाऽष्टादशाक्षरपादं धृत्यां चित्रलेखावृत्तम् ऐन्द्रश्रेणीनतपदयुगला भव्यपापौघभैत्री, कल्याणालीव्रततिविततिवार्दायमाणा मुनीनाम् । स्वान्तागारे वसतिमुपगता शान्तिधारां क्षरन्ती, ते मूर्तिमें भवतु शिवकरी चित्रलेखा" मनोज्ञा ॥३०॥
अथैकोनविंशत्यक्षरपादमतिधृत्यां मेघविस्फूर्जितावृत्तम् श्रयन्ति त्वां देवं गतभवरुजं भक्तिभावोत्तरङ्गाः, सदा मूर्च्छन्मोहव्रजतमसि ये सूर्यभासायमानम् । ददन्ते तेषां भीलवमपि च नो स्वप्नकालेऽपि नाथ !, मृगारातीभाद्याः प्रतिभयतमा मेघविस्फूर्जिताऽस्तु ॥३१॥
२४. यत्र राभिधो गणः पुरस्ततो जसंज्ञकोऽथ, राभिधेन मण्डितो गणेन जस्ततः पुनस्तु । कीर्त्तितो रसंज्ञको गणश्च
लान्तिमं बुधेन, चित्रसंज्ञमीरितं बुधप्रमोददायकं तत् ॥ उट्टवणिका यथा - 55 151 55 15। आऽ । २५. नगणसुभगः प्राच्यो भागस्ततस्सगण: पुन-र्मगणसहितो राख्यस्स्याच्चेत् ततस्सगणो लघुः । गुरुविरचना यस्यामन्त्ये
बुधैरिह सा मता, भवति विरतिर्यद्वेदाश्वैर्यदा हरिणी तदा ॥ उट्टवणिका यथा - ॥ ॥ऽ ऽऽऽ ऽ ऽ ।ऽ २६. जसंज्ञकगणः पुरो भवति साभिधोऽथो गणो, जसंज्ञकगणः पुनर्भवति साभिधोऽनन्तरम् । यसशंकगणान्विता
लघुगुरुप्रशस्ताऽन्तिमा, वसुग्रहयतिर्बुधैरिह मता तु पृथ्वी वरा ॥ उट्टवणिका यथा - 15। || II |5 155 15 २७. माभिख्यः प्रथमं गणस्सगणसम्भ्राजी यदि ततो, जाख्यस्स्याच्च गणस्ततस्सगणसंराजी परमितः । ताख्यश्चेत्तदनन्तरं
सगणसम्बन्धो भवति चेत्, तहि जैः प्रथितं दिवाकररसैः शार्दूलललितम् ॥ उट्टवणिका यथा - 555 15 15।
IIS 551 HIS २८. मोभो नश्च त्रियगणसहितश्चित्रलेखा तदा स्यात् ।। उट्टवणिका यथा - 555 5|III Iऽऽ ।ऽऽ ।ऽऽ २९. गणो याख्यः पूर्वं मगणरचना स्यात्परस्तान्मनोज्ञा, भवेन्नाख्यो हृद्यो गण इह ततो यस्य बन्धो मनोज्ञः । ररौ
स्यातां तस्माद् गुरुरिह यदा तर्हि मान्या बुधेन्द्र, रसैः षड्भिवहिर्यतिरिह मता मेघविस्फूर्जिताऽसौ । उट्टवणिका यथा - 155555 || ||5 515 51s 5