________________
प्रवर्तक-मुनिश्रीयशोविजयविरचिता
अथ चतुर्दशाक्षरपादं शक्वर्यां सिंहोद्धतावृत्तम् (वसन्ततिलका) नृणां क्रुधोद्धतशरीरविभाविभाजां, क्रोधोद्धतद्विपवरस्य विघातने सा । सिंहोद्धता भवति यस्य शरीरकान्तिः, सिद्धार्थनन्दनजिन: स सुखाय मेऽस्तु ॥२०॥
___ अथ चतुर्दशाक्षरपादं शक्वाँ लोलावृत्तम् भव्या यौवनलक्ष्मीविद्युद्विभ्रमलोला, विश्वाश्चर्यचरित्रः श्रीवीरोऽतिदुरापः । तद् यूयं शमसारं संसारोदधितारं, विश्वेशं भजत द्राग् श्रीवीरं जिननागम् ॥२१॥
___ अथ पञ्चदशाक्षरपादमतिशक्वर्यां मालिनीवृत्तम् जननमरणवीचिप्राप्तदुःखौघनृणां, पृथुदवथुभवोर्मीमालिनीह भ्रमन्तः । भवति च शरणं नो वीरनाथं विनाऽन्य, इति विदधतु लोको वीरसेवां सुखालीम् ॥२२।।
अथ पञ्चदशाक्षरपादमतिशक्वर्यां कामक्रीडावृत्तम् कामक्रीडामुक्तं शुद्धात्मानं देवैर्वन्द्यं तं, सौख्यावासं शुद्धज्ञानं लोकानन्दं नाथं च । वीरं धीरं दोषोन्मुक्तं शश्वच्छान्तं सर्वज्ञ-मीशं लोकत्रातारं दीनोद्धारं भक्त्या स्तौमि ॥२३॥
अथ षोडशाक्षरपादमष्ट्यां गरुडरुतवृत्तम् सततमहं जिनेश्वरवरं भवत्रायकं, सकलभयानलोदकसमं सुनामेष्टदम् । तव परमं भजामि भुवनैकबन्धो ! विभो !, गरुडैरुतं मदादिभुजगेन्द्रसन्त्रासने ॥२४॥
अथ षोडशाक्षरपादमष्ट्यां चकितावृत्तम् भीमभववनश्रेणीभ्रान्तिक्लान्तिसुचकिता!, भव्यवरभरा ! दारिद्र्यप्रोढूनतमहृदः ! । इच्छथ लघु चेद् गन्तुं मोहाब्धेरपरतटं, गच्छत शरणं श्रीवीरं भीताभयददनम् ॥२५॥
१८. सेयं तभौ जजगगा मुनिकाश्यपेन, सिंहोद्धतेति कथिता मुनिसैतवेन । उद्धर्षिणीति गदिता मधुमाधवीति,
नागैर्वसन्ततिलका सकलप्रसिद्धा ॥ उट्टवणिका यथा - 55। | ।। 15। 55 १९. पूर्वं मस्य निबन्धस्तस्मात् सो विनियोज्यो, मस्तस्मात् परतश्चेत् तस्माद् भस्य निवेशः । अन्ते गद्वययोगो यस्यां
विबुधालादी, द्विः सप्तच्छिदि लोला ज्ञेया विज्ञमता सा ॥ उट्टवणिका यथा - 555 ॥ऽ ऽऽऽ | 55 २०. नगणयुगलयुक्ता मेन मध्ये प्रयुक्ता, यगणयुगलनद्धा बद्धमोदप्रबन्धा । इह भवति न केषां हारिणी चित्त
वृत्तेर्मधुरपदविलासा मालिनी नागवाहैः ॥ उट्टवणिका यथा - || || 5ऽऽ ।ऽऽ ।ऽऽ २१. लीलाखेलं केचित् प्राज्ञाः प्राहुस्तां नृत्यद्वर्णा, यां सारङ्गी वृत्तत्वेन प्राहुर्विज्ञाः केचित् सा । कामक्रीडाख्या ख्याता
छन्दोविद्भिश्छन्दोग्रन्थे, मैर्बाणैः सौन्दर्याढ्या कस्याऽन्तों मोदं दत्ते ॥ उट्टवणिका यथा - ऽऽऽ ऽऽऽ ऽऽऽ
ऽऽऽ ऽऽऽ २२. भवति पुरो नसंज्ञकगणो जसंज्ञकस्ततो, भगण इतः परं जगणशोभितः स्यात् तथा । भवति ततस्तसंज्ञकगणो
गुरुस्ततः, परं गरुडरुतं तदा मनसि भाव्यतां मनोहरम् ॥ उट्टवणिका यथा - || II II II 55। 5 २३. भाभिधगण एव स्यात् पूर्वं साभिधगणतो, यत्र भवति रम्यत्वं तस्मात् स्याद् यदि मगणः । तस्य च रचना
तस्माद् [वै] तस्माद् यदि नगणो, गो यदि गदिता सेयं प्राजस्तहि तु चकिता । उट्टवणिका यथा - ॥ ॥ऽ 555 551 III 5