________________
स्तुतिकल्पलता
अथ चतुर्विंशत्यक्षरचरणं संकृत्यां किरीटवृत्तम् देवकिरीटमणिप्रकरप्रतिरञ्जितपादसरोजयुगं तव, भातु सदा मम चेतसि देवविकीर्णसरोरुहचारि सुखाकर ! । यत्र विभाति नखावलिरीश्वर ! पद्ममणिप्रकरप्रतिमाङ्गलिमस्तकराजिसुधाकरबिम्बसमा शमनिज्जितदोषरिपुव्रज ! ॥३७॥
अथ चण्डवृष्टिप्रपातनामा सप्तविंशत्यक्षरचरणो दण्डकः जय जय सुरयक्षविद्याधराधीशमादिभिः सङ्कुले सर्वशोभाकरे, समवसरणभूमिभागे यथावत्समावेशितानेकलोकाकुलेऽतिप्रभे । मणिकनकविचित्रचञ्चत्प्रभाहारिसिंहासनाध्यासिनो देशना देव ! ते, त्रिभुवनततकाममोहादिघोरानलोज्झासने चण्डवृष्टिप्रपातीयते ॥३८॥
॥ इति श्रीमज्जिनचरणसरोजचञ्चरीक-वादिमातङ्गपञ्चानन-महाव्रतपञ्चकविलासगेह
तपश्चर्याचरणचक्रवर्त्याचार्यवर्य-श्रीमद्विजयनेमिसूरीश्वरशिष्य
प्रवर्तक-यशोविजयविरचिता सहृदयकण्ठशोभिनी वीरोज्ज्वलगुणगुम्फिता विविधनामगर्भच्छन्दोमयमुक्तकषट्त्रिंशिका ।।
।। इतिश्रीचरमजिनेश्वरश्रीमहावीरस्वामिषट्त्रिंशिका समाप्ता ।
३५. अष्टभकारमनोहरबन्धनवृत्तकिरीटमिदं परिभावय ।। अन्यत्राऽप्युक्तम् -
पादयुगं कुरु नूपुरसुन्दरमत्र करं वररत्नमनोहर-वर्णयुगं कुसुमद्वयसङ्गतकुण्डलगन्धयुगं समुपाहर । पण्डितमण्डलिकाहृतमानसकल्पितसज्जनमौलिरसालय-पिङ्गलपन्नगराजनिवेदितवृत्तकिरीटमिदं परिभावय ॥
उद्दवणिका यथा - | | | | | | | | ३६. यदि नगणयुगं ततः सप्तरेफास्तदा चण्डवृष्टिप्रपातो मतो दण्डकः ॥
उट्टवणिका यथा - ||| || 515515 515 515 515 515515