________________
प्रवर्तक-मुनिश्रीयशोविजयविरचिता जयति जयति गौडीपार्श्वनाथो जिनेन्द्रो, जयति जयति बिम्बं तस्य देवस्य नित्यम् । जयति जयति धन्यस्सोऽपि भक्तस्तयोर्य, इह जगति किमन्यद् धन्यमावर्णनीयम् ॥३३॥
प्रोद्यत्कर्मानिलौघप्रबलतरदुरावेगसद्योनिरोधे, स्थूलाद्रीयन् प्रकृत्या जगति निजजनान् सान्त्वयन् शान्तिवृष्ट्या । सर्वत्राऽऽपातरम्ये विषयसुखरसे दापयन् प्रीतिरीति, नित्यं पायादपायात् पुरुषपरफलप्रापकः पार्श्वनाथः ॥३४।। (स्रग्धरा) त्वं चित्त ! ब्रूहि सत्यं मधुरमधुदधिस्वच्छपानीयदुग्धद्राक्षापीयूषपानं कृतमिह बहुधा कर्मबन्धप्रसादात् । कर्मोच्छेदैकहेतोः कथय मधुरिमा यस्त्वयाऽऽप्तोऽशमात्रं, गौडीशस्य स्तुतौ स भ्रमणरसिक! किं दृष्टपूर्वोऽपि तेषु ॥३५।। दैवाद् गौडीशनाथं भवरटनपटो ! स्वीयवृत्त्योपलब्धं, किं निःशडं यथेष्टस्मतिपथमनिशं नो करोष्यज्ञ ! चित्त ! ॥ क्रोधाद्यास्त्वाममित्रं निजविमुखतया चेद विजानीयुरेते, कुर्युः किं त्वां तदा नो जिनपतिविमुखं स्वीयदुष्टप्रचारैः ॥३६॥
(कविनामगर्भश्चक्रबन्धः) यस्सत्त्वैकहितः सतां वितनुते पार्श्वस्स सौख्योदयं, शोभां भास्करसोदरां सुतनुते भव्याब्जकोशोद्भिदि । विज्ञानप्रविदानपण्डितवरो रागोरुनागोद्धरिजन्मार्त्तिप्रविभेदकोऽग्यतनुको निर्वेदको रक्षतु ॥३७॥ (शार्दूलविक्रीडितम्)
(स्तुत्यनामगर्भो बीजपूरप्रबन्धः) यस्य गौः पाति संसार, यस्योड्डीनं यशो वरम् । यस्य शक्तिरवेन्नारं, यत्नात् सोऽस्तु श्रिये परम् ॥३८।। (अनुष्टुप्) श्रीगौडीपतिपार्श्वसंस्तुतिमिमां गायन्ति शृण्वन्ति ये, ते पाश्र्वैकपरायणा भुवि नरास्त्राणप्रवीणा वराः ।। आत्ति शल्यनिभां निहत्य सकलां शान्तिश्रियाऽऽलिङ्गिताः,
ख्याति निश्चितमश्नुवन्ति भुवने सिद्धिं च ते विन्दते ॥३९।। (शार्दूल०) श्रीमन्नेमीश्वरगुरुवरोत्कृष्टपादप्रसादा-देवं गौडीपुरपतिवरस्संस्तुतः पार्श्वनाथः । मोहध्वान्तप्रमथनपटुः पण्डितः पुण्यदाने, दोषप्लोषं विकिरतु सतां सत्यमार्गप्रदाता ॥४०॥
(मन्दाक्रान्ता) मायामोहतमोविमोहितदृशामाशापिपासाकुलस्वान्तानां परितो गवेषितशमानन्दामृतानां नृणाम् ।