________________
स्तुतिकल्पलता व्रजन्ति विपदस्ततो झटिति सम्पदस्तं श्रय-न्त्यनन्तसुखभुक् तदा स इति किं वृथाऽन्यद् ब्रुवे । सुरासुरसुवन्दिते सकलशर्मसम्पादके, त्वदीयचरणाम्बुजे भवति यस्य भक्तिर्दृढम् ॥१७॥ ज्वलन्नानाकष्टे कलिकलुषतो दुर्दिनतमे, परिभ्रष्टे मार्गे सततवसता मोहतमसा । जराव्याघ्रीभीमे विषयविषकुजैः परिवृते, स मे पावो भूयाच्छरणमिह संसारविपिने ॥१८॥ (शिखरिणी) अघवातोद्भूतप्रबलतरदुःखानलभर-प्रदग्धान्तर्वृत्तेर्गतगुणततेर्भव्यभविनः ।। असारे संसारे भवति शरणं यस्य चरणं, स्तुवे पार्वं गौडीपुरपतिमहं तं प्रतिदिनम् ॥१९॥ अबुद्धिर्मन्दात्मा शमदमदयाद्यैविरहितो, गुणैनित्यं पार्श्वस्तवनविमुखस्तेऽन्यजनुषि । तथाऽपि त्वं बाले मयि जिन कृपां चेत् तु तनुषे, मदन्यो धन्यः को भुवि दिवि तदाऽनन्यशरणे ॥२०॥ त्रिलोकीसंराजे समवसरणे स्वर्णरचिते, यथौचित्यं स्थाने निविशति गणे सद्दिविषताम् । सुखश्रेण्या वाण्या शिवसुखमनन्तं दिशति यः, स मे पावॉ दत्तात् स्मृतिपथमुपेतः शमसुखम् ॥२१॥ तपोभिः किं किं तैरसमसमयाभ्यासकलितैः, क्रियाणां कष्टैः किं किमिति विरसाहारकरणैः । विवेकैरेकैः किं किममरसुखैर्दुःखकलितै-स्तवैकं मे भूयाच्चरणमिह शश्वत् तु शरणम् ॥२२॥ जगन्मायामूढं भवभयविभीतं समवितुं, त्वदन्यो धन्यः को भवति भुवने पूर्णविभवः । त्वमेवाऽतस्त्रातस्त्रिभुवनपते ! मामपि परं, सदा दक्षो रक्षोद्गतभयमनीशं त्वशरणम् ॥२३।। अनाथानां नाथो गतिरगतिकानां जिनपते !, विबन्धूनां बन्धुर्मतिरमतिकानां शुभमते ! । असातानां सातं त्वमसि च गुणो निर्गुणनृणा-मविद्यानां विद्या त्वमसि च धनं निर्द्धननृणाम् ॥२४॥ भवानेको बन्धुर्भवति च भवानेव पितरौ, भवानेको भ्राता भवति च भवानेव सुगुरुः । भवानेको देवो भवति च भवानेव भवनं, भवानेको धर्मो निधिरपि भवानेव भुवने ॥२५॥ विविधधनसुसाध्यं वस्तुजातं जनानां, न हि निजपरितृप्तः प्रेक्षसे भक्तिभाजाम् । इति धननिरपेक्षोऽप्यर्थयुक्तैरमीभी, रुचिरवचनपुष्पैरर्चनं ते तनोमि ॥२६।। (मालिनी) श्लथयति भवबन्धान् जन्मजालप्रबद्धान्, स्मृतिरनुभवभाजां यस्य चित्तोपनद्धा । अनुपमसुखसिद्धिर्यत्प्रसादात् स एको, जयति जगति गौडीपार्श्वनाथो जिनेन्द्रः ॥२७॥ मुखसितकरमध्ये दीप्यमानप्रकाशं, विकसितमनिशं तल्लीनताराद्विरेफम् । कमलकुमुदधर्माद्वैतसाम्राज्यराजं, दिशतु मम शिवं ते नेत्रपद्मं नवीनम् ॥२८॥ दिनकरकरयोगायोगतोऽमुक्तशोभं, नयनयुगलचन्द्राद्वैतमैत्रीप्रबोधम् । कचनिकरतमोन्तर्दीप्यमानं नवीनं, जयतु तव मुखाब्जं दत्तहर्षप्रकर्षम् ।।२९।। विविधजनसुवाञ्छापूरणे पारिजातं, निजशरणमुपेतू रक्षणेष्वाशु दक्षम् । भयभरभवकूपोद्धारणे रज्जुमेकं, त्रिभुवनजनवन्द्यं हस्तयुग्मं स्तवीमि ॥३०॥ नखनिकरनिशेशज्योतिरुद्योतिताशं, त्रिभुवनजनपुञ्जक्षान्तिसान्द्रादृष्ट्या । तलमपि मृदुरक्तं यस्य नित्यं तदीज्यं, सविनयमथ वन्दे पादयुग्मं तवेश ! ॥३१॥ प्रतिपलमिह मानं त्वायुषो नाशमेति, शिथिलयति जरान्ते मन्दिरं चेन्द्रियाणाम् । इति बत शतकृत्वश्चिन्तयित्वा त्वरस्व, भज भज परभक्त्या मित्र! गौडीशपार्श्वम् ॥३२॥