________________
२६
प्रवर्तक-मुनिश्रीयशोविजयविरचिता मा विज्ञानमुपास्व मा च बहुधा घोरं तपः सञ्चिनु, कष्टं मा बहुतीर्थपर्यटनतः स्वात्मानमायासय । किन्त्वेकं सकलापदुद्धतिकरं गौडीशपार्श्वप्रभोः, पादाम्भोजयुगं विचिन्तय सकृत् सर्वं सखे ! प्राप्स्यसि ॥६।। यस्य ध्यानपरायणे जिनजने तिष्ठन्ति षट् शत्रवो, नाऽऽधिव्याधिमुखास्तदा परिणतास्तैर्नेति किं ब्रूमहे । नित्यानन्दघने सुधर्मविपिनेऽजस्रं रमन्ते जनास्तं वृन्दारकवृन्दवन्दितपदं गौडीशपाश्र्वं स्तुवे ।।७।। त्वत्सौन्दर्यनिरूपणेषु निपुणे नेत्रे मम स्तां प्रभो !, श्रोत्रे स्तां श्रवणानुरागसिके युष्मदगुणाकर्णने । त्वद्ध्यानामृतसिन्धुमज्जनरतिश्चेतश्चमत्कारिणी, श्रीपाश्र्वार्चनचातुरी चरणयोरास्तां च ते हस्तयोः ॥८॥ यन्नित्यं समुपासते सुमनसस्तन्वन्ति दिव्यस्तवैः, कुर्वन्त्यर्चनकर्म नन्दनवनोद्भूतप्रसूनैरपि । ध्यानव्यापृतिपूरितेन मनसा पश्यन्ति यं योगिन
स्तं गौडीश्वरपार्श्वदेवमनिशं वन्दे विमुक्तिश्रिये ॥९॥ मनोतु मम मानसं सकलसारशून्यं जगद्, दुनोतु न रिपुव्रजः प्रशमसेकशुद्धं मनः । तनोतु मम मङ्गलं सकलकर्ममर्मोद्भिदः, करोतु मम चेतसि प्रबलशान्तिसौख्यं जिनः ॥१०॥
(पृथ्वीच्छन्दः) भवेदनुपमा मतिर्निखिलतत्त्वविद्योतिका, रुचिर्भवति तत्त्वतस्त्वदुपदर्शिते सत्पथे । किमन्यदिह ते ब्रुवे शुभमयं जगज्जायते, प्रमोचन ! विलोचने तव कृपास्पदे देहिनाम् ॥११॥ अमन्दमणिमण्डलीविमलहेमसिंहासने, स्थितं तव वपुः स्फुटं स्फुटितहाटकश्रीहरम् । समस्तसुरसंहिते सुरपतौ स्तुते सुन्दरं, त्रिलोककुशलं मम प्रणिकरोतु पुण्योदयम् ॥१२॥ अपारपरितापकद्भवतपातपान्धा वयं, प्रपामिव सुशीतलां तव कृपामुपासीमहि । यया समवदेशिता श्रयति तां सदा सम्पदा, दयामृतविवर्षिणीं मयि जिनेन्द्र ! दृष्टिं कुरु ॥१३॥ सुभव्यजनतोदधेः समदिनेषु संवर्द्धके, सदैव सकलाकले द्विविधपक्षसत्पक्षके । प्रतिक्षणसुलक्षणेऽललितलक्ष्मणालक्षिते, तवाऽऽस्यनवचन्दिरे मम मनश्चकोरायताम् ॥१४॥ समस्तजनमोददा जलजसर्वगर्वच्छिदा, ज्वलज्ज्वलनजित्वरज्वरभरत्वराभञ्जिकाः । जगत्रितयरञ्जिकास्त्रिविधदुःखबम्भञ्जिका, दिशन्तु मम काङ्कितं तव दृशः सुधासोदराः ॥१५॥ रमा कृतपदा सदा भवति तस्य गेहे सुखं, सुरास्सततमेव तं प्रणिभजन्ति पुण्योदयात् । रिपुर्भवति मित्रवद् भवति शारदाऽन्तःस्थिता, न्वपारभवसागरप्रवहणं तु यस्त्वां भजेत् ॥१६।।