________________
स्तुतिकल्पलता
श्रीनेमीश्वरसूरिराज्यसमये पार्श्वस्तुतिस्संस्तुता, भूयाच्छान्तिकरी प्रपूर्णमनसां नित्यं तु पार्श्वस्तुतौ ॥४१॥ (शार्दूल०) गौडीशस्तुतितो न किञ्चिदपरं याचे फलं लौकिकं, नो वाऽलौकिकमिष्टदेव ! भवतः किन्त्वेकमेवाऽस्तु मे । तत्त्वातत्त्वविवेचनैकचतुरस्याऽऽत्यन्तिकं भावतः,
श्रीनेमीश्वरसद्गुरोः शमनिधेरानन्दपूर्णं मनः ॥४२।। ॥ इति श्रीदुर्ललितसकलदुरितोद्वेगदुइँगसरित्पयोऽपारपूरविप्रोषभीष्मग्रीष्मायमाण-संसारमारवपथप्रथमानानल्पकुविकल्पोद्गच्छदतुच्छदुःखदावानलप्रशमनैकधाराधरायमाण-संसर्गात्सपत्नषड्वर्गदर्पज्वरभरविदारणागदङ्कारायमाण-जिनवरवरचरणस्मरणप्रसादसन्दर्भनिर्भरगभीरगीभ्रमन्मन्थक्ष्माभृद्
धुमधुमितसिन्धुप्रतिभटायमान-श्रीमद्विजयनेमिसूरीश्वराणां । चरणचञ्चरीकायमाणविनेययशोविजयविरचितं श्रीगौडीपुरपतिपार्श्वनाथस्तवनं पूज्यपादारविन्दानां गुरुवराणां श्रीमद्विजयनेमिसूरीश्वराणां प्रसादात् समाप्तम् ।।