________________
३३८
प्रकीर्णरचनासन्दोहः
नमस्ते कादम्बाऽमरनरनमस्याय च नमो, नमस्ते कादम्बाऽधरितपरतीर्थाय च नमः । नमस्ते कादम्बाऽवनितलललामाय च नमो, नमस्ते कादम्बाऽद्भुतगुणनिधानाय च नमः ॥३०॥ क्व चाऽयं कादम्बोऽपरिमितगुणोऽपारमहिमा, क्व चाऽहं तत्स्तोत्रे मनुजपशुरुत्कण्ठितमनाः । प्रभावः सर्वोऽयं विलसति महान् नेमिसुगुरोः, स्तुतिव्याजादेतद् यदिह विहितं बाललपितम् ॥३१॥ धन्यास्ते ध्यानमेतगिरिवरविषयं निःस्पृहं कुर्वते ये, संसारासारलीलाविकलितहृदयाः पुण्यभाजो मनुष्याः । ध्येये कादम्बतीर्थे प्रणिहितमनसा ये समापत्तिभाजो, ध्यातृध्याने विमुच्य प्रशमितविषयास्ते तु धन्या विशिष्टाः ॥३२॥ सिद्धक्षेत्रं शरीरं त्रिभुवनतिलकं मुख्यशृङ्गं शिरो मे, बाहुस्तालध्वजाद्रिः प्रथम इह तथा हस्तिसेनः परोऽयम् । पुण्या शत्रुञ्जयेयं शमदमलहरी ध्यानयोगः कदम्बो,
ज्योतिष्मानन्तरात्माऽप्यथ जयति तनौ नाऽस्ति किञ्चिद् बहिर्मे ।।३३।। गच्छे शास्त्रपरम्परागमबले शुद्धे तपानामनि, साम्राज्येऽनुपमे स्फुरन्महिमनि श्रीनेमिसूरीशितुः । सूरेः श्रीविजयोदयस्य सुगुरोस्तत्पट्टसेवाजुषः, पट्टे नन्दनसूरिणा विरचिता कादम्बतीर्थस्तुतिः ॥३४॥