________________
प्रकीर्णरचनासन्दोहः
३३७ वसन् कादम्बाद्रेः परमरमणीये परिसरे, स्थितो योगाभ्यासे शमदमसमाधानसुभगे । जगन्नाथ ! त्रातश्चरमजिननाथेति प्रलप-नविश्रान्तं तत्त्वं निरवधि गमिष्यामि हि कदा ॥१३।। इयं पुण्या वापी जयति गिरिमार्गे स्थितवती, ध्रुवं धन्यमन्या विविधतरुरम्याम्बुविमला । यतोऽतश्चाऽऽरोहं विदधदवरोहं च सकलो, जनः कादम्बाद्रेर्भवति हि विलीनश्रम इह ॥१४|| गिरेमर्यादाकृल्लसति तलहट्टीयमनघा, स्थिताश्चाऽऽरोहन्तो विदधति गिरेवन्दनमिह । जनानां कादम्बात् समवतरतां भावुकजनाः, सुभक्त्या वात्सल्यं विदधति च मिष्टान्ननिभृतम् ॥१५|| सपण्यैर्लभ्येयं गिरिचटनसोपानसरणिः, यदीया पद्याली सुखसमवगाहा सुसरला । उदारा या श्लेषद्रढिमरमणीया तनुभृतां, समाधीनां श्रेणी वितरितुमिवाऽत्र व्यवसिता ॥१६।। नृणां कादम्बाद्रेः पथि विचरतां श्रान्तवपुषा-मिमे स्युर्विश्रामाः पुनरपहरन्तः श्रमभरम् । लहर्यः स्नेहार्द्रा इह सुरभिकादम्बमरुतां, निषेवन्ते नूनं गिरिवरविलीनैकमनसः ॥१७|| इदं धर्मोद्यानं भवजलधियानं च भविनां, मुनीनामास्थानं ध्रुवमशिवहानं सुमनसाम् । निधानं पुण्यानां शिवसुखनिदानं यमवतां, त्रिधा वन्दे नित्यं गुरुमहिमकादम्बतिलकम् ॥१८॥ पुरा श्रीनाभेन प्रथमजिननाथस्य गणिना, गिरेरुत्सङ्गेऽस्मिन् भरतनरनाथस्य पुरतः । प्रभावो व्याख्यातस्त्विह च भरतोऽप्यद्भुतमना, व्यधाद् धर्मोद्याने चरमजिनप्रासादमतुलम् ॥१९॥ महाप्रासादोऽयं प्रथमजिनराजस्य विदितः, समुच्छ्रङ्गा रम्या जिनभवनचैत्यावलिरियम् । विभातीदं दण्डं नियतमिह सूर्येत्यभिधया, गिरिः कादम्बोऽयं जयति सुरलोकं यदधुना ॥२०॥ इहोद्याने नौमि प्रकटमहिमानं निदधतं, नमीशं तीर्थेशं प्रथमजिनपं शाश्वतजिनान् । विधायाऽन्यद्रूपं विमलगिरिशृङ्गद्वयमपि, स्थितं द्रागुद्धा व्यवसितमिवाऽत्राऽखिलजगत् ॥२१॥ तवोत्सङ्गे चाऽस्मिन् मम खलु ललाटं विलुठतु, प्रसाद कल्याणी मयि किरतु सा रेणुकणिका । तनौ मे खेलन्तां मृदुलमरुतां वीचिवलयाः, पुनन्तस्त्वत्सङ्गादखिलमपि कादम्ब ! भुवनम् ॥२२॥ महाकादम्बाद्रेर्लघुशिखरवृन्दैः सुललितं, प्रधानं शृङ्गाणामिदमघहरं विस्मयकरम् । समुत्तुङ्गं शृङ्गं रजनिरमणार्को भयनतं, समासेवे सोऽहं धरणिरमणीभालतिलकम् ॥२३॥ स्तुवे प्राच्यां तालध्वजगिरिविभुं पञ्चमजिन-मितश्च श्रीवीरं मधुपुरमणि दक्षिणदिशि । प्रतीच्यां श्रीनेमिं गगनशिखरे रैवतगिरा, उदीच्यां नाभेयं विमलगिरितीर्थेश्वरपतिम् ॥२४॥ अहङ्कारावर्ते विषयविषमौर्वाग्निकलिते, कषायग्राहौघे जनिमृतिजरागाधसलिले । समन्तादाशानामगणिततरङ्गैस्तरलिते, भवाब्धौ कादम्ब ! त्वमसि मम प्रौढप्रवहणम् ॥२५॥ स्फुरद्रागो यत्र प्रचरति मृगेन्द्रोऽनुपरतः, शृगाला: क्रोधाद्याः कटुतरनिनादाश्च परितः । महामोहः शुण्डी भ्रमयति जनानुद्धतकरः, भवारण्ये तस्मिस्त्वमसि मम कादम्ब! शरणम् ॥२६॥ प्रसन्ने कादम्बे भवति सकलाः सिद्धिनिवहाः, प्रसन्नाः स्युः सर्वे निधय इह चिन्तामणिरपि । न सा सिद्धिलॊके भवति च न वा सौषधिरपि, पवित्रे कादम्बे विलसति न या सिद्धिनिलये ॥२७॥ मयूराणां वृन्दे मदयतु नवा नीरदघटा, चकोराणां चित्ते निदधतु मुदं चन्द्रकिरणाः । मयि त्वेष द्वेषप्रणयप्रणिधानैककुशले, समृद्धः कादम्बः प्रगटयतु लोकोत्तरमुदम् ॥२८॥ विशाला वै दृष्टा जगति गुरवोऽनेकगिरयो, गुणैस्तु त्वय्येवोल्लसति गुरुता शास्त्रगदिता । समुद्धातारं त्वां शरणमुपयातोऽहमधुना, समुद्धारं कुर्या झटिति मम कादम्ब ! गिरिराट् ॥२९॥