________________
३३६
प्रकीर्णरचनासन्दोहः
।। ५. श्रीकदम्बगिरितीर्थस्तोत्रम् ॥
श्रियः शिवं वो विदधातु मङ्गलं, सजीवनः सिद्धिनिकेतनं गिरिः । सुराष्ट्रमौलिर्विदितः कदम्बकः, कलावपीह प्रकटप्रभावभृत् ॥१॥ पुरा यस्मिन्नद्रौ गणधरवरः सम्प्रतिप्रभोः कदम्बो योगीन्द्रः शिवमधिययौ कोटिमुनिभिः । क्षयं नीत्वा कर्माण्यखिलघनघातीनि सहसा, स्तुवे श्रीकादम्बं धरणिरमणीयं गिरिवरम् ॥२॥ कदाऽहं कादम्बे विमलगिरिशृङ्गारतिलके, वसानः सन्तापं त्रिविधमपि तीव्रं प्रशमयन् । परात्मन्यात्मानं समरसविलीनं च विदधत् समानेष्ये सोऽहं ध्वनितहृदयोऽशेषदिवसान् ॥३॥ अये च्छायावृक्षा अमरतरवो रत्नखनयः, प्रकाराः सिद्धीनामगणितगुणानां च निखिलाः । रसानां कुण्डानि प्रकटितकला औषधिगणाः, कलावप्येतत् त्वं सकलमपि कादम्ब ! दधसे ॥४॥ न सन्त्यद्धादोषान्नयनपथगा यद्यपि हि ते, नृणां मेघच्छन्नास्तरणिकिरणाः प्रावृषि यथा । प्रभावस्तेषां नो तदपि विचलः किन्त्वविचलः भवन्ति प्रत्यक्षा यत इह सुराः शास्त्रविधिना ॥५॥ स एव त्वं नूनं विमलगिरिकूटस्त्वमसि यत् तथा पुण्याद्रिस्त्वं त्वमसि खलु शत्रुञ्जय इति । न वै भेदं धत्ते त्वयि च विमलाद्रौ च मम धी-र्न जाने कादम्ब ! त्वयि मयि च भेदावधिमहम् ||६|| कृतज्ञास्ते धन्याः कृतसुकृतसाराः कृतधियः सदा ये कादम्बं दधति हदि लोकद्वयहितम् ।
श्रीविजयनन्दनसूरिः
,
न तेषां दारिद्यं दुरितमथवा दैन्यघटना, न वा रोगाः शोका जननमरणक्लेशघटिताः ॥७॥ प्रयातस्त्वं नृणां नयनयुगमार्गस्य सरणि हरस्यन्तस्तापं विविधभवपापं च दहसि । नयस्याधि व्याधि निधनमनुपाधि च वहसे, कथं मय्यौदास्यं श्रितवति भवन्तं तु भजसे ||८|| त्वदग्रे कादम्बोद्वहति सरितैषा भगवती, कुतीर्थान्यैश्वर्यादधरयति शत्रुञ्जयति वै ।
अये ! भव्यानां त्वामभिगतवतामागतवतां, त्वदादेशान्मन्ये दुरितमलमाक्षालयति सा ||९|| ईयं चैषा पुण्या परिसरगता भूमिरखिला विभर्तीदानीं साऽद्भुतसकलसौन्दर्यलहरीम् । जिनानां चैत्यानां ध्वजकलशदण्डाग्रनिवहै-निनादैर्घण्टानां स खलु तव कादम्ब ! महिमा ॥१०॥ स्थिता द्वापञ्चाशद् गिरिपरिसरे देवकुलिकाः सह प्रासादेनाऽन्तिमजिनपतेः सद्युतिभृता । चमत्कारं केषां विदधति न धर्मोद्यतधियां, भवत्यारूढो यन्मम तु हृदि नन्दीश्वर इह ॥ ११॥ जिनानां विंशत्या चतुरधिकया च त्रिहतया, जिनानां विंशत्या महति च विदेहे विचरताम् । विराजन्तं वीरं सह परिवृतं गौतममुखान्, गणाधीशांश्चाऽपि प्रथममभिवन्दे परिसरे ॥१२॥