________________
२३
स्तुतिकल्पलता बाल्यं मोहहतेन मूढचरितैर्नीतं मुधा यौवनं, वित्तोपार्जनवादजल्पललितैर्व्यर्थं व्यतीतं मम । स्वामिन्नद्य जराकुलस्य भयदुर्दावानलार्तस्य च, मृत्यु‘वति यावदेन ! न विभो ! मां पाहि तावद् द्रुतम् ॥९७|| नाथ! त्वच्चरणाम्बुजं नहि मया सम्यक् समाराधितं, संसारार्णवलङ्घनप्रवहणं धर्मार्जनं नो कृतम् । स्वर्गद्वारकपाटमुद्धटयितुं नोपायमासादयं, कीदृक् स्यां परजन्मनीति सततं चिन्ता समुज्जृम्भते ॥९८||
परमपुरुष ! न स्मृतो मया त्वं, यदिह भवामि विपत्प्रलीनबुद्धिः ।
भवजलनिधिपोतमद्य युष्मत्-स्मरणमवाप्य भवामि लुप्तदुःखः ॥९९॥ [पुष्पिताग्रा] कदा नाथ! ध्यानामृतरसदृढास्वादसुहितः, समुत्सृज्य क्रूराहितभयमविक्षिप्तहृदयः । असारं संसारं तृणमिव विचिन्त्य क्षयि सुखं, प्रसादात् ते भूयासमिह करुणाम्भोऽधिप! विभो! ॥१००||
[शिखरिणी] विना पुण्यं नाथ! त्वदुदितवचोभक्तिरतुला, न लोकानां त्यक्त्वा तव वचनभक्तिं जिन! न तत् । इति प्राप्तेऽन्योन्याश्रयविषमदोषव्यतिकरे, भवानेको वेत्ता भवति परिहारेऽत्र शरणम् ॥१०१॥
संसारापारवारान्निधितरिचरणः पापसङ्घातशैलध्वंसप्रौढौपदेशाशनिरमरगणक्लुप्तपूजोपचारः। कारुण्याम्भःप्रवाहैः कृतसकलमनोदुःखजम्बालनाशैभूयो दृष्टिप्रपातैः सुखयतु जनतां स्तम्भनः पार्श्वनाथः ॥१०२।। [स्रग्धरा]
(कविनामगर्भश्चक्रबन्धः) यस्याऽतुल्यचरित्रकस्य महिमा निश्शेषसातोदयः. शोकं हन्ति च यस्य सर्वमनिशं दृष्टिः सुधाजित्वरी । विघ्नं हन्ति च संस्मृतिः सुमनसां पूज्यस्य यस्याऽनिशं, जन्मातिँ प्रणिहन्तु सोऽयममलः पाश्र्वो मम स्तम्भनः ॥१०१॥ [शार्दूल०]
(स्तुत्यनामगर्भो बीजपूरप्रबन्धः) यस्तम्भयत्यघवातं, यद्भजनं तु विश्रुतम् ।
यन्नमनं मुदे ख्यातं, यत्नात् पार्वं स्तवीमि तम् ॥१०२॥ [अनुष्टब्] भव्यान्तःकरणप्रचारचतुरैकान्तोक्तिराज्युत्थिता-ऽभ्रान्तज्ञानविरोधिविभ्रमतमोनिर्मूलैनकक्रियः । स्याद्वादोक्तिसहस्रपादघटनानेकान्तपद्मासमो-ल्लास: पार्श्वपरो नवो विजयते श्रीसिद्धसेनो रविः ॥१०३।। येन स्तम्भनपार्श्वसंस्तुतिलतादिव्यौषधी निर्मिता, स्वात्मत्राणकरी महोग्रकुरुजामाभीलतोऽथो भुवाम् । अन्तस्तः प्रकटीकृता भगवतो मूर्तिस्सुमूर्तिस्तथा, श्रीमान् सोऽभयदेवसूरिरवतान्नित्यं सतां संस्तुतः ॥१०४|| नव्यव्याकरणाम्बुधेर्यदुदयः संवर्द्धकः सोऽनिशं, वादीशोडुसहस्रभोपशमिता वागंशुजालैर्नवः । भव्यान्तःकुमुदप्रमोदकुशलस्तैस्तैश्चरित्रांशुभि-र्जीयात् पार्श्वपदाम्बुजैकशरणः श्रीहेमचन्द्रः शशी ॥१०५॥ स्फीतं यस्य निरन्तरं हृदि महत् पाश्र्वोक्तिनिष्ठास्पदे, साम्राज्यं किमपीह नूतनमलं वाग्देवताऽकण्टकम् । कृत्वाऽत्यन्तसमुन्नतिं गतवती नाऽद्याऽपि वासं परं, तादृक्प्राप्तवती यशोविजय इत्याख्यो गणी सोऽवतात् ॥१०६॥ श्रोत्रन्यस्तलवैव शुद्धभणितिः पीयूषवृष्टेस्समा, येषामस्ति सदा चमत्कृतिकरी ते पार्श्वभक्ता भुवि ।