________________
प्रवर्तक-मुनिश्रीयशोविजयविरचिता
पाखण्डखण्डनविधावशनिप्रकाशा, सिद्धान्तदेशनकरी तव नाथ! वाणी । जीयात् समस्तजनिभाजनवाक्यजात-रूपेण पर्ययवती भुवनत्रयेऽपि ॥८१।। प्राप्तं चिरात् सुकृतराशिबलेन नृत्वं, नैव स्थिरं न सुलभं पुनरित्यवैमि । कर्तुं निजस्य हितमीश! न चाऽपि चेष्टे, देवाऽहमस्मि करुणामय ! यद्भविष्यः ॥८२।। तस्मात् त्वमेव परिरक्ष न यावदेवा-ऽस्मान् धीवरीव नियतिः स्ववशान् करोति । मत्स्यानिवेश! परिजग्धुमियं कराला, मोहोग्रजालपरिवर्तननिःशरण्यान् ॥८३।। त्रस्तः समस्तभयरोगदवानलेन, पार्वं शरण्यमिह विश्वपति श्रयामि । संसारमारवपथभ्रमणातिखिन्नो, दीनोद्धृतिप्रविततिप्रभुमद्य शान्त्यै ॥८४।। नाथ ! ब्रवीमि पुरतस्तव किं जडोऽहं, कामैकघोरवनपावकपीड्यमानः । शान्ति प्रयामि न च भीत्यतिविह्वलस्त-न्मामुद्धरस्व शरणं प्रतिपद्यमानम् ॥८५।। कान्ता न कान्तिभरनिजितचन्द्रवक्त्राः, सौधाः सुधाधवलिता मणिकुट्टिमा मे । आनन्दनाय जिन यादृगयं त्वदीय-वक्त्रोद्भवो भवहरो वचनप्रकर्षः ॥८६॥ माकन्द ! गच्छ भवता न ममाऽस्ति मोदो, द्राक्षे नु काऽद्य भवती विरसा सुधाऽपि । यज्जैनवक्त्रशिशिरांशुसुधापवित्र-स्याद्वादपानसुहितौ श्रवणौ किमन्यैः ॥८७। येऽन्ये जिन ! त्वदुपदेशसुधां विहाय, संसाररोगभरनाशमिहेहमानाः । अन्यागमेषु विहरन्ति विहाय मन्दा-स्ते गांखरं समुपयान्ति पयोऽर्थिनस्तु ॥८८।। कालः कदा स भविता करुणापयोधे !, यत्राऽन्यवस्तुविमुखस्तव पादमूले । चेतो निवेश्य भवभीतिहरे वियुक्तः, पापैर्विमुक्तिपदवीं सहसा प्रपद्ये ॥८९।। स्वर्गापवर्गपदवी न दवीयसी ते, पापो न पापविधये तव मित्र ! शक्तः । यत् त्वं जिनेन्द्रपदमाश्रयसे विहाय, सर्वाणि मोहविषयाणि न तेऽद्य दुःखम् ।।९०।। ज्ञानप्रदीपमतुलं यदि चेन्न देव!, त्वं भिन्नभिन्ननयसङ्ग्रहकारि हृद्यम् । स्याद्वादसंज्ञमकरिष्य इहाऽन्धकारो, मोहोद्भवो न विरतिं सहसाऽगमिष्यत् ॥९१।। भिद्यद् विचित्रगतिदुर्नयहेतिजालैः, सिद्धान्ततत्त्वमुरुलोकदयाप्रधान ! ।
संवर्म्य युक्तिमयसर्वनयानुगामि-स्याद्वादवर्मपटलेन दृढं त्वरक्षः ॥९२।। किमन्यदथ ते ब्रुवे विदितविश्व! दीनस्य मे, स्फुरन्तमतिभीषणं यमभटं प्रलीनस्मृतेः । स्थितिश्चलति पश्यतो गतिरपि स्खलन्ती मुहु-धृतिं न परिषेवते गलति चेतना कायतः ॥९३।। [पृथिवी] जात्यन्धोऽध्वनि सङ्कटे प्रविचलन् दीनः करालम्बनं, हित्वा चेद् विपदं भजेद् यदि तदा कोऽस्याऽपराधो भवेत् । धिग् धिङ् मां बत शास्त्रचक्षुषि सति प्रज्ञाप्रदीपे सति, सन्मार्गप्रतिपादके सति गुरावप्यन्धुपातोन्मुखः ॥९४||
[शार्दूल०] त्राता नाऽस्ति पथे तु यत्र विषमे तत्र प्रहारोन्मुखा, द्वेष्टारो यदि वम्मिता भवति कस्तत्राऽतिशक्यक्रियः । यत्र त्वं करुणार्णवस्त्रिभुवनत्राणप्रवीणः प्रभुः, कामाद्याः प्रहरन्ति मां यदि तदा कस्यैष गर्हावहः ॥९५।। यावद् दर्पविसर्पवामकरणस्तोमाभिरामाकृति-स्तावन्मोहतमोभरेण न मया गर्त्तः समालोकितः । आसन्ने पतने प्रभो ! त्वदपरं कं प्रार्थये कं श्रय, आत्मद्रोहपरायणं करुणया त्रायस्व मां त्वद्वशम् ॥९६।।