________________
स्तुतिकल्पलता
स्तेनैः प्रपीडितमपि श्वसनाशदष्टं, दस्युप्रबाधितमपि ग्रसितं ग्रहैश्च । शार्दूलभीतमपि रोषभरैः समेतैः, क्षोणीशपूरुषचयैः परिपीड्यमानम् ॥६४।। भूतैरुपद्रुतमपि द्रुतमम्भसां च, पूरैः प्रभीतमपि मग्नमपि प्रघोरे । सङ्ग्रामकेऽपि पतितं वनपावकेऽपि, प्राकृष्यमाणमपि कालभटेन दीनम् ॥६५॥ वज्रप्रभीतमपि हालहलाकुलं को, माद्यद्गजाकुलमनाथमहो त्वदन्यः । त्रातुं प्रभो ! प्रभुरिहाऽस्ति नरोऽसुरो वा, देवोऽथवा घनकृपामृतवारिनाथ ! ॥६६।। [त्रिभिविशेषकम्] यद्दर्शनं दुरितदुःखतृणानलं स्याद्, यस्य स्मृतिर्भवसमुद्रतरिजनानाम् । तं देवदैत्यमहितं रहितं च दोषै-जन्तोहितं प्रभुमहं शरणं श्रयामि ॥६७।। ये त्वत्पदाम्बुजयुगं परिहाय देव!, धावन्ति देवमपरं शरणं विमूढाः । ते जाह्नवीं परिविहाय तृषाऽभिभूता, धावन्ति नाथ सततं मृगतृष्णिकायाम् ॥६८।। नाथाऽतिशुद्धचरितस्य तव प्रशस्ति-गीतामृतेषु दृढरागवती मदीया । वाणी मृगीव न पदात् पदमप्यहो सा, गन्तुं क्षमा दृढतरप्रतिबध्यमाना ॥६९।। संसारघोरदवपावकपीड्यमान-वाक्कायशान्तिकरणैकमहौषधानि । भोगापवर्गवशकारणकार्मणानि, पार्श्वस्य पूजननमस्करणान्यवन्ति ॥७०।। त्वत्पादपङ्कजनकधुतिवारिधारा, ध्यानेन मे मनसि नाथ मुहुः प्रदत्ता । किं कारणं दुरितपङ्ककलङ्कमेषा, न क्षालयत्यमरपूज्यपदारविन्द ! ॥७१।। दुष्कालसङ्कटकटाहविभृज्यमान-जन्तुव्रजस्य मददर्विविघट्टितस्य । विश्वत्रयाभ्युदयजन्म वपुस्तवेश, त्वेका गतिर्भवति शान्तिविधानदक्षा ॥७२।। संसारमारवपथप्रथमानताप-व्यापद्धतिप्रथितचारुमहीरुहस्य । भोगापवर्गफलदानसमुद्यतस्य, पादं श्रयामि तव कामनिदाघतप्तः ॥७३।। अम्भोजगर्भसुकुमारतरोऽपि देव!, पादस्तवाऽयमतिचित्रचरित्रशाली । यत् पापशैलमनुचिन्तित एव सद्यः, प्रस्फोटयत्यलमनन्तदृढं महोच्चम् ॥७४।। त्वां ते विना त्रिभुवनैकपतिं परेशं, माः कुबोधकुटिलाः शरणप्रहीणाः । पारं प्रयान्ति न च भीतिभरा मुनीश!, तृष्णातिघोरजलधेः प्रविभिन्नमार्गाः ॥७५।। त्वन्नाममन्त्रवर एष विनोपचारं, सद्यः स्मृतो विषयरागगरापहारी । किञ्च प्रमोहकगणक्षपणाऽभिचारो, मुक्त्यङ्गनावशकरो जयतान्मुनीश ! ॥७६।। तृष्णे ! हताऽसि मदन! क्षपितो बलस्ते, हा मान ! मानवसमाश्रयणं गतं ते । यद् भूतले प्रसरति प्रचुरं जिनेश-प्रोक्तागमोऽतिबलवानरिसङ्घहन्ता ॥७७।। कि क्रोध ! दृप्यसि जगद् विनिहन्तुमेव, कि चेष्टसे न परिपश्यसि जैनवाचम् । या त्वादृशां शतमपि श्रममन्तरेण, हन्तुं प्रभुः प्रसरति क्षितिमण्डले सा ॥७८।। कि मित्र ! मन्मथपटच्चरभीतभीत-स्त्वं दूयसे न परिपश्यसि जैनवक्त्रात् । निर्गत्य तत्त्वविनिवेदनघोरशस्त्रो, राजाऽयमेति सहसा ह्युपदेशनामा ।।७९।। कि मान ! मानमुपयासि न पश्यसि त्वं, स्याद्वादयोधवरमुद्यतयुक्तिशस्त्रम् । यो जैनवक्त्रशिशिरांशुसुधाप्रपातात्, तत्त्वं प्रवेद्य विनिहन्ति विपक्षपक्षम् ॥८०॥