________________
प्रवर्तक-मुनिश्रीयशोविजयविरचिता
दुग्धाब्धितोयमिव मिश्रितकालकूटं, गङ्गातटं मकररुद्धमिवाऽतिहृद्यम् । दारिद्मदग्धमिव सद्गृहिलोकवृत्तं, मात्सर्यविप्लुतमिव श्रुतशालि चित्तम् ॥४७।। रूपं कुलीनमनुजस्य सुधांशुकान्तं, विद्यावियुक्तमिव दुष्टजनोपभोग्यम् । मूढस्य वित्तमिव दानदयाविहीन-मृद्धस्य भूपतिवरस्य यथा शरीरम् ॥४८॥ क्रोधादिदुष्टमिव लिङ्गिजनस्य वृत्तं, पुण्यं तपोवनमिवाऽजगरेण रुद्धम् । मानुष्यमुज्ज्वलगुणश्रुतशीलशालि, जातं विपत्पटलशोच्यदशम्मदीयम् ॥४९॥ [चतुर्भिः कलापकम्] पश्यन् भयानककृतान्तहतं मुनीश!, पादाम्बुजे परिपतामि लपामि दीनम् । किं वा लुठामि धरणौ किमु पूत्करोमि, नाऽस्तीह देव! शरणं चरणं विना ते ॥५०॥ हा! किं न नाथ! परिरक्षसि मां कृतान्तः, क्रूरो नयत्ययमनन्यपरायणं नो । देवेश! ते करुणया हृदयस्य पीडा, व्रीडाऽथवाऽपि शरणागतमुज्झतस्ते ॥५१॥ क्वाऽऽस्ते तवाऽद्य करुणा क्व नु वा बलं तत्, क्वाऽस्तेऽथवा तव मतिः क्व निराकुलत्वम् । कुत्र क्षमत्वमपि ते क्व निरालसत्वं, क्रन्दन्तमन्तकभयात् समुपेक्षसे यत् ॥५२॥ क्रोधस्तवाऽस्ति मयि किं किमु वा तवेर्ष्या, किं निर्दयत्वमथवा मयि भाग्यदोषात् । हुङ्कारमात्रविनिवर्त्तनगर्वसारे, काले तवाऽस्ति समुपेक्षणमद्य यस्मात् ॥५३॥ इत्यादिनिष्ठुरविलापकरो हताशो, यत्किञ्चिदद्य परिपीडितविग्रहोऽहम् । देव! ब्रवीमि मुहुरार्त्तिभरादयुक्तं, तत्रापि मौननियमो न निरुध्यते ते ॥५४॥ भीते भवाब्धिपतिते चरणाब्जलग्ने, भग्नप्रकामितभरेऽन्यगतिप्रहीणे । कस्माद् विभो ! मयि पराङ्मुखचित्तवृत्तिः, कारुण्यपुण्यहृदयो दयसे न च त्वम् ॥५५|| स्वामिन् ! स्वभावमलिनः कुटिलोऽनवस्थः, सोऽहं तथैव च रिपुर्मम कालपाशः । तस्याऽपि तद्वदिह ते भृकुटिमुनीश!, शान्त्यै गरस्य गरमेव भवेद्धि पथ्यम् ॥५६|| किंकृत्यमेभिरपि मे पुनरुक्तशुक्तैः, खेदप्रकारिभिरसाध्यफलैर्विलापैः ।। जानन्नपीति विलपामि मुहुर्मुहुर्य-दीक्षे न देव ! शरणं भवतोऽन्यमेव ॥५७।। त्वं चेत् प्रसन्नहृदयः किमु चाटुजालै-स्त्वं चेदुपेक्षणपरः किमु चाटुजालैः । पुण्योदये सति गुणेषु वृथैव यत्न-स्तस्मिन्नसत्यपि गुणेषु वृथैव यत्नः ॥५८॥ एवं विदन्नुपरमामि न यत् प्रलापाद्, दुःखान्मुनीश ! महिमैष तवैव दृष्टेः । या दन्दशूकमपि दुष्टमपि स्वभावात्, सन्त्यक्तवैरपरिशान्तमतिं करोति ॥५९।। अप्राप्तधर्मविभवैर्मनुजैरलभ्यं, त्वन्नाम देव! सकलार्थकरं वदन्ति ।। लब्धं मया तदपि दुर्गतिमग्न एव, नाथाऽहमस्मि परिपश्यसि भाग्यदोषम् ॥६०॥ सत्यं वदन्ति कवयोऽसदुपाश्रयेण, गुण्योऽपि याति सहसा खलु दोषभाक्त्वम् । या त्वत्स्मृतिः सकलपापतमोऽपहन्त्री, मां प्राप्य साऽद्य न करोति विपत्प्रणाशम् ॥६॥ दीनाच्छ्रतैव करुणां तव वेदनाऽन्त-रुल्लासयत्यनलहेतिमिवेश शिम्बा । जातैव सन्दहति तामियमित्यमुत्र, किं प्रब्रवीम्यननुरोधमधीश्वरत्वम् ॥६२।। यन्नाथ ! पामरनरोचितमभ्यधायि, भूयोऽसमञ्जसवचोऽनुचितार्थभावम् । तत्रापि तेऽतिरुचिरा रुचिरीश! युक्ता, किं कीशचापलमपि प्रभुमोददं न ॥६३।।