________________
स्तुतिकल्पलता
दौर्भाग्यशेखरमकल्पमपुण्यभाज- माजन्मनर्मरहितं कटुकोग्रवाचम् ।
दिष्ठादवाप्य निखिलाधममीश नित्यं मां दुर्गतिः कुलजनीव जहाति नैव ॥३०॥ त्यक्त्वा समाधिमसमाधिहरं वरं तु प्रोद्यत्प्रभावपटलं शिवसौख्यशालम् । तेनाऽभ्रमं जलजपत्रविलोलवारि तुल्यानि शीघ्रनिधनानि धनानि लब्धुम् ||३१|| आराधिता धनलवान्धितदृष्टयोऽति गर्येश्वरा न गुरवो भववर्द्धिताराः । घस्राणि हानिमधिप । प्रगतानि तानि मे हा प्रपीडितमना अधुनाऽस्मि नाथ! ||३२|| तृष्णा दिवाद्दिवमवर्द्धत योगिनाथ !, हेमन्तरात्रिरिव मे हृदये दयेश ! | नाथ ! प्रसद्य मम देवबोधभानु- मन्तं नयाऽन्धतमसं कुविपर्ययोत्थम् ||३३|| स्तम्भं तनोति वितनोति विपर्ययं च, मोहं प्रपञ्चयति वाक्प्रसरं रुणद्धि । कं नाथ ! नाऽऽमयमयं बहुलीकरोति, दर्पज्वरज्वलनदुःसहसन्निपातः ||३४|| तत् साम्प्रतं जगति विश्रुतहस्तसिद्धि त्वां पार्श्वदेव! सततं विभुमाश्रयामि । तस्माद् विमुद्रय वच:प्रसरावरोधं द्रागिन्द्रियप्रबलतान्तिमपानुद त्वम् ॥३५॥ विश्वासमेव च भजामि भवेऽप्यगाधे बाधे रिपूत्करकृतेऽपि च निद्रयामि । सामीप्यमेव परिगच्छति कालपाशे, जागर्मि नो यदि न रक्षसि किन्नु मे स्यात् ||३६|| यस्ते यजस्त्वमिह तस्य जयप्रदोऽसि यस्ते प्रयच्छति रवं वरदोऽसि तस्य । एवं त्वमक्षरविपर्ययकेलिशीली, किन्नाथ ! यच्छति नमो न मनो ददासि ||३७|| सर्वेऽपि नाथ ! भवता परिबोधितास्तु, पुण्यं गताश्शिवसुखं च गतास्त एव । त्वां प्राप्य देव! करुणावरुणालयाऽहं नो पुण्य एव यदि चेन्मम दुर्विधिस्तत् ||३८|| केचित् सुखस्य भगवन्नभयस्य केचित् केचित् कृपामयमहोदयमार्गमापुः । नाथे त्वयि स्मृतिपथं सहसागतेऽपि स्तुन्वन्नहं किमु भवामि विदूनचेताः ||३९|| जानानि शान्तिरसपूर्णमन: सरोऽहं नो ते प्रवेष्टुमरितप्तशरीरकोऽहम् ।
धत्तुं स्वचेतसि कृपामृतनिर्झर! त्वां शीतातिशीतमपि न प्रभवामि धिङ्माम् ||४०|| मोहान्धकारविधुरं बहुदुःखताप-तप्तं विपद्धिमसमूहहतं प्रभो ! माम् । त्वं चेज्जिन! त्यजसि को भवतापहारी, मे संहरिष्यति परोऽसमवेदनौघम् ॥४१॥ यस्य स्मृतिन्न च मतिर्न गतिर्न शक्ति रापजाऽतिपरिपीडितविग्रहस्य । तस्यौषधीपतिसमप्रभकेवलं त्वां त्यक्त्वा विधास्यति परो मम कश्चिकित्साम् ॥४२॥ त्वं रुग्वोऽहमपि देव! तथैव विश्वे यद्वत् प्रभो शिरसि ते प्रविभाति नागः । तद्वन्ममाऽपि तवसेवनतत्परस्य, चित्रं जिनस्त्वमहमस्मि जितो विकारैः ||४३|| यद्वत् स्वधर्मकुशलस्त्वमहं तथैव कामस्त्वयीव मयि नाथ! वृथोपजात: । कालस्त्वयीव मयि निष्फलतामवाप, चित्रं जिनस्त्वमहमस्मि जितो विकारैः ||४४|| पापप्रदोऽस्मि भुवने त्वमिव प्रधानस्त्वं भीतिकृज्जिन तथाऽहमपि प्रसिद्धः । यद्वत् प्रपीडनकरोऽसि तथैव चाऽहं चित्रं जिनस्त्वमहमस्मि जितो विकारैः ॥४५॥ ग्रस्तं विधुन्तुदमुखेन कलासमग्रं शीतांशुबिम्बमिव घोररुजा विरुग्णम् । मुग्धाङ्गनाङ्गमिव नागघनोपगूढं श्रीखण्डचन्दनमिवाऽमलसौरभाढ्यम् ॥४६॥
१९