________________
१८
प्रवर्तक-मुनिश्रीयशोविजयविरचिता
अस्मादृशैरशुचिभिः परिकल्पितानि, किं चाटुचापलवचांसि विनोदयन्ति । चित्तं तवाऽमरवधूललितेऽप्यनी है, कि सारमेयलडितानि समाद्रियन्ते ||१३|| यद्वा विमूढवचनान्यपि न प्रसाद - मुत्पादयन्ति किमु ते करुणामृताब्धेः । ग्रस्ताक्षरं शिशुवचः किमु नो करोति, प्रीति पितुर्भुवननाथनतांघ्रिपद्म ! ॥१४॥ अर्थप्रथाविरहितैरपि मुग्धदीन वाक्यैर्यथा द्रवति मानसमुदघृणस्य । तद्वन्न भूरिगुणसत्कविवाक्प्रबन्धः प्रव्यज्यमानरसभावविलासरम्यैः ॥१५॥ पूर्व मयाऽशुभमचापि यदीश! कर्म त्वत्पादभक्तिदृढरक्तमनाः किमस्मि । यद्वा कृतं सुबहुपुण्यचयं यदाऽन्तः, किं दह्यते विपुलशोकधनञ्जयेन ॥१६॥ आराधनां तव विधाय मनो ममाऽभूत्, कुत्रापि जन्मनि दृढानुशयालु देव ! । सर्वं कुलोज्ज्वलगुणादिपवित्रनृत्वं जातं कथं त्वपरथा मम वन्ध्यमेव ||१७|| मानुष्यपोतमधिगम्य चिरेण नाथं, सन्तारकं दृढकृपाभरणं भवन्तम् । प्राप्य प्रतीतिरभवन्मम यस्य बाढं तत्तुं बुडे यदि तदाऽपयशस्तु कस्य ||१८|| सेवापरेषु विभवो ह्युपकारकेषु कुर्युः प्रसादमिति नैव विचित्रमत्र । सन्तस्त्वपात्रमनुजेष्वपि निन्निदानं, चेतः कृपामृतभरार्द्रमुदावहन्ति ॥१९॥ तस्मान्निरस्तनिखिलोदयसाधनं मां, खिन्नात्मकं विहतवृत्तमनात्मवश्यम् । सीदन्तमीश्वर! कृतान्तभयादभीति - दानेन सत्त्वरमिहाऽनुगृहाण देव ! ||२०|| त्वां नीतिमान् भजति यः स भवत्यनीति-र्मुक्तस्स येन हृदयात् स भवान्न मुक्तः । रक्तस्स तेऽपचितयेऽपचितिं न धत्ते, कृत्वा नतिं जिन ! किमुन्नतिमानहं नो || २१ || स्वापो विदूनमनसो निशि मे दुरापो, निर्दाह आप्त! गमयामि कदा सदाऽहद । त्रायस्व मां तव वशं जिन ! शान्तिसिक्त !, कस्माद् विभोऽस्यपरुषो मयि कर्कशस्त्वम् ॥२२॥ किं पालनेन सुधियो गतभीतिकस्य पापः शठोऽयमिति मामधिगम्य हातुम् । त्वं नाऽर्हसि त्रिभुवनेश । यतोऽस्म्यसाधु- निष्पुण्यकोऽहमनुकम्प्यतरोऽस्मि तस्मात् ॥२३॥ स्वीयातिदुष्कृतभरैः परिपीडितोऽपि नोपेक्ष्य एव भवता करुणार्णवेन । अन्धौ पतन्तमपि दुप्तपशुं कृपाद्रों, लोको न नाथ समुपेक्षत एव पुण्यः ॥ २४ ॥ वक्रप्रचारमिह मां विजहास्यकणं, एतद्विजिहमुचितं न च ते कृपालो ! । यस्माद् भुजङ्गमवरं शिरसा बिभर्षि, मत्तुल्यमेव करुणामृतवारिनाथ ! ॥२५॥ पीयूषभानुत इव स्वरुसम्प्रपातः स्याद् भास्करादिव तमः प्रभवोऽयमेव ।
"
स्वामिन्! कृपाजलनिधेः शरणागतेषु अस्मादृशेषु भवतः समुपेक्षणं यत् ||२६|| स्वामिन्नभीतिददनस्त्वमहं सुभीरुः त्वं बोधिदोऽहमथ बोधिमृतेऽतिदुःखी ।
"
ख्यातो जिनस्त्वमसि रोषमनोजबद्धो ऽहं तत् त्वया किमु भवामि न चाऽनुकम्प्यः ||२७|| सर्वज्ञ! सर्वमवबोधसि भूतभावि, भाग्यक्षयो मम जिनाऽविदिता यदार्त्तिः ।
ईश ! त्वया तु करुणावरुणालयेन ज्ञाताऽथवाऽपि समुपेक्षित एव हाऽस्मि ||२८|| त्वं त्वेक एव भविनामनिदानबन्धुः, स्वाभाविकी तव दया तरणेः प्रभेव । वक्रा पुनर्नियतिरीश ! ममैव यस्य न्वाक्रन्दनानि वनरोदनसोदराणि ॥२९॥