________________
स्तुतिकल्पलता
॥ ६. श्रीस्तम्भनपार्श्वनाथस्तोत्रम् ॥
यद्दर्शनं भवगदप्रशमामृतौघं, यस्य स्मृतिर्हृदयमोहतमोऽपहन्त्री । वन्दारुकल्पतरुशाखिवरं तमीशं, श्रीस्तम्भनाधिपतिपार्श्वमहं स्तवीमि ॥१॥ [वसन्त०] पार्वं भवार्त्तिशमनं तमनन्तबोधं, रोधं समग्रदुरितस्य धियः प्रबोधम् । धोपदेशवचनैरनिशं ददानं, भूयो नमामि कृतकर्मकुलावदानम् ॥२॥ धन्योऽस्मि सुन्दरपदामृतमास्रवन्ती, यत् कर्णसन्निधिमवाप्य तवोक्तिदेवी । पापापहा विमलबोधविधानदक्षा, मातेव याऽवति कुबुद्धिविपत्प्रसङ्गात् ॥३॥ धन्योऽस्मि दुःसहविपत्पतितस्य मेऽद्य, वाणी त्वदीयचरणस्तुतिरागिणी यत् । उक्त्वा सकृत् तव कृपामय ! नाम लोकः, कल्याणराशिमनुविन्दति वागगम्यम् ||४|| धन्योऽस्मि मोहतमसाऽन्धदृशोऽपि यस्य, बुद्धिस्तव क्रमयुगं यदुपाश्रयन्ती । कल्याणसम्पदमवाप्य भवापवर्ग-योग्या भविष्यति कृपावरुणालयेयम् ।।५।। धन्योऽस्मि यत् तव पदाम्बुजभक्तिरक्ता, न्विन्दिन्दिरेन्द्ररमणीव पयोजसक्ता । सन्मुक्तिमार्गमकरन्दरसाभितृप्ता, मन्ये भविष्यति मतिर्मम नाऽतिदृप्ता ॥६॥ मन्ये कषायवडवानलतापतप्ता-दस्मन्मनःसरणितः स्खलितप्रचारा । निर्गत्य गौः समभिवेक्ष्यति पार्श्वनाथ-चेतः कृपामृतरसौघनितान्तशीतम् ॥७॥ यच्चाटुचापलमहं प्रलपामि मोह-ग्रस्तोऽप्यलध्यभव एष शिवाय नाथ! । तत्राऽपराध्यति कृपामय ! तावकीन-शान्त्यादिरेव न किमिच्छति मानवोऽयम् ॥८॥ चित्रं त्वतीव मम भाति कृपावतार !, निष्किञ्चनोऽपि फणिना परिषेवितोऽपि । सर्वोपसर्पपदवीं न जहासि नाथ, श्रीपार्श्वदेव! नरकिन्नरवन्धपाद ! ॥९॥ दग्धोऽस्मि शोकहुतभोजनहेतिजालै-रन्तस्थितैविगलितप्रतिभोऽतिभीतः । एवंविधस्य कथमीश! ममाऽऽविरस्तु, वाणी तृणीकृतमनोभवदर्प! पार्श्व ! ॥१०॥ क्रन्दाम्यथो किमपि देव! पुरस्तवेश!, घोरापदुद्धरणकारण ! कातरात्मा । कामानलज्वलितमोहवनस्थितं मां, श्रीपार्श्वनाथ! विनिभालय माविलम्बम् ॥११।। आक्रन्दमातमवधारय कर्णदेशे, कोऽन्योऽस्ति घोरभववारिधिकर्णधारः । त्वत्तोऽनुकम्पितजगत्त्रय ! पार्श्वनाथ!, पुण्यौघवर्षणपयोधरदर्शनेह ॥१२।।