________________
प्रवर्तक-मुनिश्रीयशोविजयविरचिता (कविनामगर्भश्चक्रबन्धः) यः स्वैरं रमते गुणैर्हतमदः पार्श्वः प्रभावोदयः, शोषः कर्मचयस्य बोधितजनः कल्याणकेलीगृहम् । विश्वश्रेष्ठगुणः प्रकाशितमहत्सिद्धान्तसारागमो, जन्तूद्धारकरो वरः कृतपदो निर्वाणगेहेऽवतात् ॥१२।। श्रीनेमिसूरिसाम्राज्ये, यशोविजयसाधुना । रचिता स्तुतिराकल्पं, पठ्यतां सर्वकामदा ॥१३॥ भणन्ति सुधियः स्तोत्र-मेतत् पार्श्वस्य ये भुवि । ते वैभवभरा यान्ति, महोदयफलं परम् ॥१४॥ प्राज्ञानन्दपदं स्तोत्र-मेतद् भव्यसुखावहम् ।
पठ्यमानं जनैः सर्वै-वृद्धि प्राप्नोतु सर्वदा ॥१५।। ॥ इति श्रीकविपण्डितकुलहृदयसरसीरुहभृङ्गायमाण-प्रबलकलिकलुषप्रकम्पननिरोधसुसाधुजनशिखरिश्रृङ्गायमाण
श्रीमद्विजयनेमिसूरीश्वरचरणशरणयशोविजयविरचितमिकारादिस्वररहिताकारान्तपदकदम्बमयं भाभापार्श्वस्तोत्रं श्रीमद्विजयनेमिसूरीश्वरप्रसादात् समाप्तम् ॥