________________
स्तुतिकल्पलता
॥ ५. इकारादिरहिताकारान्तद्वितीयान्तपदैर्विरचितं श्रीभाभापार्श्वनाथस्तोत्रम् ॥
अकारान्त-द्वितीयान्त-पदैरर्थप्रगुम्फितैः । सुरासुरनरस्तुत्यं, हतकर्मव्रजं विभुम् ॥१॥ न विद्यन्ते स्वरा यत्र, इकाराद्या बुधेश्वर ! ।
1
पदैरेवंविधैः स्तोष्ये पाव भाभाभिधानकम् ||२|| युग्मम् ॥ सारं भयापारपयः प्रतार यानं जगज्जन्मजराप्रणाशम् । आनन्दकन्दप्रभवप्रवाद, भाभाख्यकं पार्श्वमहं प्रपन्नः ||३|| माङ्गल्यकारं हतमानसारं, पापापहारं गतकर्मभारम् । सन्त्रासवारं मदपाशहारे, भाभाख्यकं पार्श्वमहं प्रपन्नः ॥४॥ ज्ञातार्थंजाल जनवारपालं, सर्वाक्षदान्तं सकलप्रकान्तम् । मायानलव्रातजलप्रपातं भाभाख्यकं पार्श्वमहं प्रपन्नः ॥५॥ आमप्रणाशं वरदानदक्षं दग्धामयव्रातबलापकक्षम् । नष्टान्तरङ्गासहनप्रपक्षं, भाभाख्यकं पार्श्वमहं प्रपन्नः ||६|| शश्वत्प्रजप्यं सततं प्रकाम्यं ब्रह्मप्रदानं पुरुषप्रधानम् । परान्नशक्रं गतपाशचक्रं भाभाख्यकं पार्श्वमहं प्रपन्नः ॥७॥ माङ्गल्यमालं सकलप्रपालं प्रकान्तभालं गतगर्त्यकालम् । अस्तप्रपञ्चं प्रवराग्यवाचं भाभाख्यकं पार्श्वमहं प्रपन्नः ॥८॥ अज्ञानकाननधनञ्जयमाप्तमह्यं मारान्धकारशमनप्रबलार्ककल्पम् । संसारचण्डगददस्रसमप्रभावं, भाभाख्यपार्श्वमहमामहरं प्रपन्नः ||९|| सत्पादपङ्कजपरागकपावनक्ष्यं, स्फारापपाशवचनव्रजराजवक्त्रम् । कर्माशयक्षपणलब्धवरापवर्ग, भाभाख्यपार्श्वमहमामहरं प्रपन्नः ॥१०॥
,
(अथ स्तुत्यनामगर्भो बीजपूरकप्रबन्धः ) जगद्धास! तमोहार जनभानकरेश्वर! ॥ जय मारमदोद्धार। जय देव शमाकर! ||११||
१५