________________
प्रवर्तक-मुनिश्रीयशोविजयविरचिता यः श्रीसौख्यनिमग्नचित्तकलितः सम्प्राप्तपापव्ययः, शोभाधाननिधानकायललितो लीलागृहं ब्रह्मणः । विख्यातः सकलावदातचरितैर्धर्मद्रुमारामको, जन्तुक्लेशतृणौघदावदहनो दादाख्यपाश्र्वोऽवतात् ॥१२॥ श्रीनेमीश्वरसूरिराज्यसमये तस्य प्रभावप्रथाध्यानोन्मूलितमोहसन्तमससन्दोहेन पार्श्वस्तुतिः । प्रज्ञानन्दददा यशोविजय इत्याख्यावता साधुना, चैषा निर्मितिमाप्य भव्यजनतापापं भिनत्तु द्रुतम् ॥१३।। श्रीपार्श्वस्तवनं भणन्ति हृदये सन्ध्याय दादाभिधं, पार्वं ये शिववल्लिरोहजलदं ते प्राप्तपुण्योत्कराः । भव्या वैभवचक्रवालकलिता धर्मालवालोत्थितब्रह्मश्रीलतिकामहोदयफलप्राप्त्या कृतार्था भुवि ॥१४।। प्राज्ञस्तोमसुकर्णमोदजननी भव्यावलीकन्धरा, मुक्तालीव मनोहरा विजयिनी लोके चमत्कारिणी । भव्यैर्वैभववृन्दवाञ्छनपरैः सम्भण्यमानाऽनिशं, यावच्चन्द्रदिवाकरं वितनुतात् संस्फीतिमेषा स्तुतिः ॥१५।। इति प्रसंस्तुतः पावो, नेमिसूरिप्रसादतः । शिवाय भव्यजीवानां, भूयात् सम्भूतिवारकः ॥१६।।
॥ इति श्रीमन्निखिलविद्यासङ्केतसदनतितकविताक-श्रीमद्विजयनेमिसूरीश्वरपादाम्बुनिर्यन्मकरन्दबिन्दुतुन्दिलचित्तभृङ्गकयशोविजयविरचितमकारान्तद्वितीयान्तपदकदम्बमयं दादापाष्टिकं
श्रीमद्विजयनेमिसूरीश्वरप्रसादात् समाप्तम् ।।
R