________________
स्तुतिकल्पलता
॥ ४. अकारान्तद्वितीयान्तपदैः श्रीदादापार्श्वनाथस्तवनम् ॥
अकारान्तद्वितीयान्त-पदैराप्तगौरवैः । स्तोष्ये दादाभिधं पार्वं, क्लेशप्रशमकारिणम् ॥१॥ कृपावतारं शुभसम्प्रचारं, भवाब्धिपारं शिवसौख्यकारम् । कृतोपचारं विबुधैरमारं, कुबोधवारं जगदेकसारम् ॥२॥ कृतोपदेशं जगतामधीशं, जराहिवीशं मुखमित्रभेशम् । प्रभासिताशं द्युतिजालकीशं, अलोभपाशं कृतशान्तिवेशम् ॥३।। छिन्नप्ररोषं कृतकर्मशोषं, दयाप्रपोषं हतबुद्धिदोषम् । यशःप्रभूषं सुखवारिवर्ष, कृतप्रतोषं शुभमार्गघोषम् ॥४|| गतप्रशोकं शुभवल्लिसेकं, चन्द्रप्रभाकं मुखमुज्झिताङ्कम् । बिभ्राणमेकं गतमोहरेकं, गतारिभीकं महनीयभाकम् ।।५।। अवद्यभेदं सकलार्थवेदं, विमुक्तखेदं परिबोधनादम् । भवामयोदन्तविभेदिवादं, कल्याणकादम्बपयोदनादम् ॥६॥ अतुल्यदेहं गुणराशिगेहं, धर्मप्ररोहं सततन्निरीहम् । ज्ञानैः सुधाहंकृतिसम्प्रदाहं, कृपाप्रवाहं दधतं विदाहम् ॥७॥ सर्वैकगेयं गुणतो ह्यमेयं, दत्तप्रदेयं परिमुक्तहेयम् । कामाद्यजेयं परिचिन्त्य कायं, विमुक्तमायं ह्युपदेशवायम् ॥८॥ ज्ञानप्रदानं कलुषावदानं, लोकत्रयव्यापियशोवितानम् । संखण्डितोद्यन्मदकाममानं, दादाभिधं पार्श्वजिनं स्तवीमि ॥९॥ (अष्टभिः कुलकम्)
(स्तुत्यनामगी बीजपूरकप्रबन्धौ) अतुल्यदानं गुणिलोकसार-मर्यं विदाहङ्कृतकर्मपारम् । अघौघभेदं स्मरदाहहारं, अब्जास्यपाश्र्वं प्रणमाम्युदारम् ॥१०॥ जय दारिद्र्यसम्पात ! जय दानवपूजित ! । जय पार्थिवशंवात !, जय श्वःश्रेयसा तत! ॥११॥