SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ १० प्रवर्तक-मुनिश्रीयशोविजयविरचिता (षोडशाक्षरचरणमष्ट्यां चञ्चलावृत्तम्) चञ्चला बुधेह चञ्चला सुतादिवर्ग एष ते भवत्यवश्यमेव मोहपाशबन्धनेन । दुःखदावदाहदानकारणं सदाश्रयेह तद्भवोदधिप्रघोरदुःखनाशपार्श्वमाशु ॥६॥ (विंशत्यक्षरचरणं कृत्यां चित्रनामकं वृत्तम्) लोभमोहमानकालसर्पसङ्कले भवाख्यकाननेऽत्र, कर्मवर्गवैरिपातितो जनो भृशं विदूनचेतसा तु । त्वत्पदाब्जसेविनां निरीक्ष्य दुःखभारनाशमप्यहो न, चित्रमेतदेव भाति यत् तथापि सेवते भवन्तमाशु ॥७॥ (अथ स्तुत्यनामगर्भो बीजपूर:) जगज्जन्तुसमुद्धार ! जप्य! पार्षद्यमुत्कर । जराश्वभ्र ! शुभाकार !, जयाह्लाद ! यशस्कर ! ॥८॥ श्रीनेमीश्वरसूरिराज्यसमये तस्य प्रतापादिदं स्तोत्रं श्रोत्रसुखावहं विरचितं श्रीपार्श्वनाथस्य यत् । तेनाऽऽकल्पमिहाऽऽ श्रयन्तु सुधियः श्रीपार्श्वनाथं जिनं, सद्धर्मप्रतिपन्नभावनगरे स्तुत्यं वरं श्रेयसे ||९|| श्री पार्श्वस्तवनं पठन्ति भुवि ये ते प्राप्तपुण्याशया, लोकाः श्लोककदम्बपुष्पकलिता धर्मद्रुमाः सर्वदा । श्रीमन्नीतिफला भवन्ति विनयप्रोदूढमूलाश्चिरं, कल्याणावलिवल्लिवेष्टनकृतच्छायाः सुसेव्याः सताम् ॥१०॥ ॥ इति श्रीवसुमतीहारायमाणकीर्त्तिलतासम्वेष्टितापरचारित्रमूर्त्तिधर्मकल्पद्रुमश्रीविजयनेमिसूरिपादारविन्दमकरन्दतुन्दिलमिलिन्दायमानयशोविजयमुनिकृतं विविधनामगर्भच्छन्दोमयमुक्तक श्रीपार्श्वजिनेश्वराष्टकं समाप्तिमभजत् ॥ ६. यत्र राभिधो गणः पुरस्ततो जसंशकोऽथ राभिधेन मण्डितो गणेन जस्ततः पुनस्तु कीर्त्तितो रसंशको गणच लान्तिमं बुधेन, चित्रसंज्ञमीरितं बुधप्रमोददायकं तत् ॥ (अस्य चञ्चलानामकस्य वृत्तस्य चित्रसंज्ञतया प्रसिद्धत्वात् चित्रसंज्ञतया एव लक्षणं लिख्यते ।) उदुवणिका यथा 515 151 515 151 515 | ७. पूर्वमेव राभिधो गणस्ततो भवेज्जसंज्ञको गणस्तु, राभिधस्ततो भवेज्जसंज्ञको गणः पुरश्च राभिधोऽथ । जाभिध भवेद् गणः पुनः पुनर्गुरुस्ततो भवेश, एक एव चेत्तदा प्रतीहि चित्रनामकं बुध ! त्वमत्र । उवणिका यथा SIS ISI SIS ISI SIS ISI SI =
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy