________________
स्तुतिकल्पलता
॥ ३. प्रथमैकवचनान्तपदैः श्रीचिन्तामणिपार्श्वस्तोत्रम् ॥
श्रीचिन्तामणिपार्श्वनाथममरस्तुत्यक्रमाम्भोरुहं, दर्पोद्दामकरीन्द्रकुम्भदलनप्रख्यातकण्ठीरवम् । क्रोधक्रूरभुजङ्गगर्वगिलनश्रीवैनतेयोपमं, स्तोष्येऽहं प्रथमान्तशब्दनिवहैरेकत्वसंराजितैः ॥१।। (शार्दूल०) जयत्यखिलखेचरप्रखरमौलिरत्नप्रभा-प्रभासितपदाम्बुजप्रचलरेणुपुञ्जेन्दिरः ।। निरस्तजनमानसप्रभवदर्पकाडम्बरः, प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥२।। (पृथ्वीच्छन्दः) जयत्यतुलविक्रमप्रहतमानमायानल-प्रजातभवरोगकप्रशमनप्रजाताक्षरः । विपद्ब्रजधराधरोद्दलनवज्रपातस्मृतिः, प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥३॥ जयत्यघभरोद्भवत्प्रबलदुःखदावानल-प्रदूनभविमानसप्रशमदानधाराधरः । विमुद्रनवमल्लिकाकुसुममित्रकीर्तिव्रजः, प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥४॥ जयत्यमरदीर्घिकाजलजजालगर्वापह-प्रसत्वरविलोचनप्रशमितोग्रपापज्वरः । प्रमोहरजनीशतक्षपणवाक्यभानूदयः, प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥५॥ जयत्यवनिसंस्थिताखिलकुसृष्टिवादप्रथा-निरस्तभविसन्मतिप्रबलदानकल्पद्रुमः । प्रभीषणभयार्णवप्रबलकर्णधारक्रमः, प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥६॥ जयत्यसमसद्युतिप्रकरसारपीयूषक-प्रसिञ्चनकृतावनिप्रबलशान्तिसङ्गक्रमः । सुधासमसमुच्छलद्वचनजातवेगोद्धरः, प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥७|| जयत्यजितविक्रमप्रवरदन्तवेगोद्भव-त्समग्रकलुषद्रुमोद्दलनदृप्तदन्तावलः । समस्तभुवनोदयप्रथनवैनतेयारवः, प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ।।८।। जयत्युरुगुणावलिप्रसितचित्रमुक्ताफल-प्रकाशिचरणावगत्युदितशुद्धजैनागमः । अचिन्त्यचरितोज्ज्वलज्ज्वलनभासपक्षच्छविः, प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥९॥
(अनुष्टुब्वृत्तेन स्तुत्यनामगर्भो बीजपूरकप्रबन्धः) जय चिन्ताव्रजोद्धार ! जय तापहरो र ! । जय मन्युप्रसंहार ! जयोष्णिक्स्तुतसंवर! ॥१०॥