________________
स्तुतिकल्पलता
॥ २. विविधनामगर्भच्छन्दोमयमुक्तक-श्रीपार्श्वजिनेश्वराष्टकम् ॥
(एकादशाक्षरचरणं त्रिष्टुभि बन्धुवृत्तम्) पार्श्वजिनं भवभीतिनिरासं, मायिकपाशविनाशनदक्षम् । देशनवारिनिवारिततापं, बन्धुमहं सकलस्य नतोऽस्मि ॥१॥
(त्रयोदशाक्षरचरणमतिजगत्यां मायावृत्तम्) लोकाधीशैर्भक्तिभरेणाऽऽनतपादं, यस्मिश्चेतो लग्नमपापं भविता ते । सर्वानन्दप्राप्तमुदारं भविबन्धो !, त्यक्त्वा मायां लोभमपि त्वं भज पार्श्वम् ॥२॥
(द्वादशाक्षरचरणं जगत्यां तामरसवृत्तम्) सुरहृदयालिनिपीतमरन्दो-पमशुभदेशनवाचमुदारम् । कलुषनिदाघहरं जनताया-स्तव मुखतामरसं जिन ! जीयात् ॥३॥
(त्रयोदशाक्षरचरणमतिजगत्यां प्रबोधितावृत्तम्) (मञ्जुभाषिणीत्यपि) परिभूतमानसतया मनोभुवा, हृतधर्मशेवधिचयाश्शरीरिणः । भवता जिनेन्द्र ! सहसा प्रबोधिता-स्सखमाप्नवन्ति मदमाननिद्रया ॥४॥
(चतुर्दशाक्षरचरणं शक्वर्यामपराजितावृत्तम्) जिनवरवृषभ: फणीन्द्रसुचिह्नितो, गुणमणिनिकरो जगत्पतिरीश्वरः । सकलसुरनरेश्वराद्यपराजिता-तुलबलधरणो दधातु शिवश्रियम् ॥५॥
१. भत्रयशोभितपादपिनद्धं गद्वयवर्णसुवर्णितबन्धम् । बन्ध्वभिधं प्रथितं भुवि विज्ञैर्दोधकसंज्ञमिदं प्रथितञ्च ॥
उट्टवणिका यथा - ॥ ॥ 55 २. माभिख्यः पूर्वं तगणस्स्याद् यदि पश्चात् पश्चात् तस्मात् स्याद् यगणस्साख्यगणाढ्यः । गान्त्योत्कृष्टा विज्ञमनोमोदददैषा
माया प्रोक्ता विज्ञजनैः पदरम्या तु । उट्टवणिका यथा - 555 55।।55 5 5 मत्तमयूरमित्यपि वदन्ति । ३. नगणविलास इतः परमेव जगणनिबन्धकृतिः सुभगा च । भवति ततः परमेव जकारो यगणयुतो यदि तामरसं
तत् ॥ उट्टवणिका यथा - || ।। ।। 155 ४. सगणो भवेत् प्रथममेव गुम्फितो, जगणस्ततस्सगणशोभितस्ततः । जगणः पुनर्गुरुयुतो यदा तदा, कथिता बुधैरिह
वरा प्रबोधिता ॥ उट्टवणिका यथा - 05 ।। || Is5 नगणयुगयुता रकारविराजिता, सगणयुतपदा लघुप्रविमण्डिता । भवति गुरुयुता बुधप्रवरैरियं, स्वरविरतिरुदाहृता त्वपराजिता । उट्टवणिका यथा - ॥ ॥ 5 ॥5 15