________________
श्रीस्तोत्रचिन्तामणिः
१९३ ये स्वीयोन्नतिसाधकाः प्रशमदाः संसाधयेस्तान् मुदा, साध्यादूर्ध्वमनिष्टमिष्टमिति वा चैष्यत्फलं संस्मरेः । कृत्याभासनिबन्धनप्रतिविधानोपायमालोचये, रागद्वेषलयो यथा भवति सङ्काः प्रवृत्तिं तथा ॥११॥ सम्प्रीतो भव सर्वदा निजगुणारामे रतस्त्वं मुदा, कर्माधीनदशागताश्च भविनश्चित्रं बुधानां कथम् ? | त्वं कस्याऽपि न कोऽपि तेऽत्र न भवे पार्श्वे त्वदीयं तव, त्वद्भिन्नं तव नास्ति पुद्गलरतित्यागी भव त्वं मुदा ॥१२॥ रागद्वेषरिपू प्रशान्तिघनवायू तीव्रदुःखप्रदौ, तौ त्यक्त्वाऽतुलसात्त्विकोन्नतिगतेलेशः सदा त्वं भव । त्वां खिन्नं च विधास्यतीह परकीयाशा महाक्लेशदा, आशादास्यमुपागताश्च मनुजाः संस्युर्जगत्किङ्कराः ॥१३।। न्यायाधीशदशः कदापि विमती रोगी निरोगः कदा, इभ्यस्त्वं च कदापि निर्धनदशस्त्वं दूरुची रूपवान् । शक्तस्त्वं च कदाप्यशक्तिकलितोऽप्येवं स्थिती: कर्मणां, ज्ञात्वा त्वं भव जीव! साम्यनिरतः शुद्धोपयोगी सदा ॥१४||
निष्कामवृत्तिभिर्भव्य-र्भाव्याऽतो ममतापहा । यतोऽर्हद्धर्मनिर्विघ्ना-राधना सफला भवेत् ॥१५॥ (अनुष्टुब्वृत्तम्) बाणनिधाननवेन्दु(१९९५)-प्रमिते वर्षेऽक्षयतृतीयायाम् । श्रीमदहमदाबादे, विशदं वैराग्यकुलकमिदम् ।।१६।। ।। (आर्या) श्रीनेमिसूरिशिष्यो, गुर्वनुभावेन पद्मसूरिरहम् । प्रणिनायाऽतो पुण्यं, यत् तेन सुखी भवतु सङ्घः ॥१७||
R