________________
श्रीविजयपद्मसूरिविरचितः
॥ १२. प्रशस्तिः
॥
बाणनवनिधिसुधांशु(१९९५)-प्रमिते वर्षेऽक्षयतृतीयायाम् । पुर्यां श्रीमधुमत्यां, विशिष्टनररत्नपूर्णायाम् ॥१॥ परमोपकारिसुगुरोः, तपगच्छपनेमिसूरिवर्यस्य । शिष्याणुपद्मसूरिः, प्रकाशविजयस्य विज्ञप्त्या ॥२॥ श्रीस्तोत्रादिमचिन्ता-मण्याख्यं स्तोत्रविविधसङ्कलनम् । ग्रन्थं चकार सोऽत्रा-ऽऽतनोतु जिनशासने नन्दीम् ॥३॥ यदुपार्जितं सुपुण्यं, ग्रन्थविधानान्मया सदा तेन । प्रभुभक्तरता भव्या, भवन्तु चाऽन्ते चिदानन्दाः ॥४॥
श्रीस्तोत्रचिन्तामणिग्रन्थः
समाप्तः ॥