________________
१९२
श्रीविजयपद्मसूरिविरचितः
यौवनं स्वप्नसंकाशं, स्वाम्यं चापि विनश्वरम् । चले प्रेमसुखे चैव-मिन्द्रचापसमाः श्रियः ॥१२॥ अनित्यभावनाभावी, संयोगादौ न शोचति । विपरीतस्तुच्छनाशे, क्रन्दनं कुरुतेऽन्वहम् ॥१३॥ दृष्टान्तं भरतश्चक्री, देहादीनामनित्यताम् । भावयन् केवलं प्रापा-ऽऽदर्शगेहे शिवप्रदम् ॥१४।। एवं भव्यैर्मुदा भाव्या, मोहनाशाय भावना । पावनेयं क्रमाद् दत्ते, शैलेशी सुखसम्पदम् ॥१५॥ गुरुणां नेमिसूरीणां, पूज्यानां सत्प्रसादतः । प्रणिनाय पद्मसूरिः, सद्वैराग्याष्टकद्वयम् ॥१६।।
॥ श्रीवैराग्यषोडशकम् - २ ॥ येषां संहननं बभूव सबलं वज्रर्षभाद्यं तथा-ऽऽयुश्चैवं निरुपक्रमं गतगदं तेऽनित्यतालिङ्गिताः । सम्प्राप्ता मरणं विचारय तदा रे जीव ! का ते कथा?, ते देहः सबलो न किन्तु कदलीग|ः समोऽल्पस्थितिः ॥१॥ किम्पाकप्रतिमाः समस्तविषया नि:सीमदुःखप्रदाः, सौख्यं किञ्चिदवास्तवं च मनुते मोहीजनोऽज्ञानतः । मार्जारश्च पयो गृहीतलकुटं नोत्पश्यति स्वादयन्, भुञ्जाना विषयान् यमं विषयरागाढ्यस्तथा मोहतः ॥२॥ भुक्तं हन्ति विषं स्मृता अपि च ते मृत्यतिदाः सर्वतो, दुःखान्यत्र बहून्यवाप सुसतीसीतेच्छया रावणः । कन्दर्पोऽपि जहावर॑श्च मलयां काङ्क्षन् महामोहतो, विज्ञायैवमनन्तकालसुखदे धर्मे विधेया रतिः ॥३।। विष्ठामूत्ररसास्थिमेदकुणिमासृरक्तशुक्रादिभिः, सम्पूर्णं रमणीशरीरमशुचि प्रीत्यर्हमेतन्न तद् । रोगोत्पादककारणेषु नवसु स्थानाङ्गगेषूदिता, भोगासक्तिरनिष्टरोगततिदा हेयो विकल्पोऽस्य तत् ॥४॥ आयुर्वायुतरङ्गसन्निभमिदं सोपक्रमं वाऽस्थिरं, प्रत्यक्षं च निरीक्ष्यतेऽत्र जननीगर्भे मृताः केचन । केचिज्जन्मगताश्च बाल्यसमये केचिन्मृता यौवने, कार्या धार्मिकसाधनाऽत इह संत्यक्त्वा प्रमादं सदा ॥५॥ स्वाम्यं वारणकर्णसन्निभमिदं विद्युच्चला सम्पदो, नारीलोचनचञ्चलं भवसुखं स्वप्नोपमं यौवनम् । सर्वे स्वार्थपरायणा निजजनाः स्नेह्यादिरागोऽस्थिरः, सिद्धे स्वार्थ इहाऽपयान्ति निजकाः कार्या रतिस्तेषु न ॥६॥ यत्सम्बद्धमिदं शरीरमधुना रे जीव ! ते जन्मन-स्त्यक्त्वा त्वं तदपि प्रयास्यसि परं लोकं च मोहं त्यज । शब्दादीन् प्रविहाय मोहविषयान् प्रत्याव्रजन्तीक्षितुं, नो केऽपीति विचारणीयमसकृत् के के स्मरन्तीति तान् ।।७।। एकोऽहं मम कोऽपि नो भववने कस्याऽप्यहं नो कदा, शिक्षां चेतसि धारय प्रमुदितस्त्वं दर्शनाद्यात्मकः । नित्यस्त्वत्परवस्तुजातमखिलं बाह्यं विभावात्मकं, भुक्ता दुःखततिस्त्वयाऽत्र सततं संयोगमूला भवे ।।८।। उक्तामेवमनित्यतां प्रतिदिनं ये भावयन्त्यादरात्, ते शोचन्ति सुतादिके न मरणं प्राप्तेऽपि प्राणप्रिये । सर्वं नित्यमिति ग्रहातमनुजा भग्ने कुटीरेऽपि चा-ऽबोधान्नित्यमपारशोकजलधि मज्जन्ति धर्मोज्झिताः ॥९॥ धर्मोऽर्हत्प्रभुभाषितोऽतिविशदस्त्राणं परस्मिन्निह, कर्माणि प्रलयं प्रयान्त्यनुदिनं घोराणि यद्भक्तितः । यं संसाध्य गताः शिवं च भविनः सेत्स्यन्ति सिध्यन्ति च, जीवेनाऽत्र मृतेन गच्छति परं लोकं स सार्धं सदा ॥१०॥