________________
श्रीस्तोत्रचिन्तामणिः
१९१
॥ ११. वैराग्यकाव्ये ॥ ॥ श्रीवैराग्यषोडशकम् - १ ॥
भव्याऽऽसाद्य जिनेशानं, देवं त्यागिगुरुं तथा । त्रिपुटीशुद्धधर्मं च, प्रमादाचरणं त्यज ॥१॥ (अनुष्टब्वृत्तम्) कालेऽनन्ते गते शुभ्रां, सामग्रीं पुण्ययोगतः । लब्ध्वा तां निष्फलीकुर्युः, प्राज्ञाः के भद्रकाक्षिणः ॥२॥ उत्तमां धर्मसामग्री, येऽत्र कुर्वन्ति निष्फलाम् । दुर्जना निन्दनीयास्ते, सद्भिर्धर्मपरायणैः ॥३॥ त्यक्त्वाऽनुकृतिमेषां च, मत्वा दुर्गतिसाधनम् । सद्भावनाविवेकेन, सत्कृति परिभावय ॥४॥ साधनाद् दर्शनादीनां, दोषाणां परिहारतः । सन्तोऽनवद्यसाध्यस्य, सिद्धिमश्नुवतेऽञ्जसा ॥५॥ सन्मार्गाश्रयणं श्रेय-स्तस्मादित्युक्तिरर्हताम् । एवं चोक्तविधानेन, सद्भावात् परमं पदम् ॥६॥ एकोऽहं नास्ति मे कश्चि-न्नाऽहमप्येवं कस्यचित् । ममाऽऽत्मा शाश्वतो युक्तः, सज्ज्ञानादिगुणैस्तथा ।।७।। संयोगलक्षणा बाह्याः, पदार्था दुःखदायिनः । यतोऽङ्गिना तेभ्य एव, भुक्ता दुःखावलिर्मुहुः ॥८॥ सुखमार्गः स्पृहाभावो, महदुःखं परस्पृहा । साधनं दुःखनाशाय, परमं धर्मसाधना ॥९॥ दुग्धं पिबन् च मार्जारो, गणयेन्नैव ताडनाम् । भुञ्जाना विषयानेवं, भविनो भाविनी मृतिम् ॥१०॥ नीरपूरसमो देहो, जीवितं वायुचञ्चलम् । लावण्यं क्षणिकं रामा-नयनाञ्चलसन्निभं ॥११॥