________________
श्रीस्तोत्रचिन्तामणिः
१८५
॥ ९. शारदास्तोत्रे ॥
॥ श्रीशारदालघुस्तोत्रम् ॥ सदतिशयान्वितरूपा, जिनपतिवदनाब्जवासिनी रम्या । नयभङ्गमानभावा, प्रभुवाणी बोधदा वोऽस्तु ॥१॥ (आर्या) तदधिष्ठायकभावं, प्राप्ता श्रीशारदा चतुष्पाणिः । श्रीगौतमपदभक्ता, विज्ञानोत्कर्षदा भवतु ॥२॥ प्रस्थानस्मृतिकाले, भावाचार्या निधाय यां चित्ते । कुर्वन्ति स्वान्यहितं, स्तवीमि तां शारदां नित्यम् ॥३॥
औं ह्रीं क्लीं वाग्वादिनि !, वद वद मातः ! सरस्वति ! प्रौढे ! ।। तुभ्यं नमो जपन्त्वि-त्येतन्मन्त्रं सदा भव्याः ॥४॥ मन्त्रानुभावसिद्धा, मलयगिरिहेमचन्द्रदेवेन्द्रौ । श्रीवृद्धमल्लमुख्या, जाता जिनधर्मखदिनकराः ।।५।। ते पुण्यशालिसुधियो, विशालकीर्त्तिप्रतापसत्त्वधराः । ये त्वत्पदपद्मरताः, प्रभातकाले स्तुवन्ति नराः ॥६।।
॥ श्रीसरस्वतीस्तोत्रम् ॥ श्रीस्तम्भनपतिपावं, नत्वा गुरुवर्यनेमिसूरिवरम् । प्रणयामि भक्तिभावः, सरस्वतीस्तोत्रमुन्नतिदम् ॥१॥ सदतिशयान्वितरूपा, जिनपतिवदनाब्जवासिनी रम्या । नयभङ्गमानभावा, प्रभुवाणी साऽस्तु वो वरदा ॥२॥ तदधिष्ठायकभावं, प्राप्ता श्रुतदेवता चतुष्पाणिः । श्रीगौतमपदभक्ता, सरस्वती साऽस्तु वो वरदा ॥३॥ प्रवचनभक्ता भव्या, यां स्मृत्वा प्राप्नुवन्ति वरबुद्धिम् । कमलासने निषण्णा, सरस्वती साऽस्तु वो वरदा ॥४॥