________________
१९८४
श्रीविजयपद्मसूरिविरचितः
॥ श्रीसिद्धचक्राष्टकम् ॥
श्रीपाश्वं स्तम्भनाधीशं प्रणम्य स्वगुरुं तथा । स्तुवे श्रीसिद्धचक्रेशं, सकलाभीष्टदायकम् ॥१॥ नमः श्रीसिद्धचक्राय, सिद्धमाहात्म्यशालिने । अनन्तार्थस्वरूपाय पायकाय भवाम्बुधेः ||२|| साध्यसिद्धिसमीहानां, विघ्नध्वंसविधायिने । चिन्ताव्याधिसमेतानां विशालानन्ददायिने ॥३॥ कवीनां कविताशक्ते- भव्यानां भावसन्ततेः । सम्पदां सम्पदिच्छूनां, मुक्तेर्मुक्त्यभिलाषिणाम् ॥४॥ दायकं सिद्धचक्रेशं, भव्या भाविमहोदयाः । भजन्तो भावतो नैव, स्पृश्यन्ते रिपुपीडया ॥५॥ युग्मम् ॥ धर्मिणः पञ्च चत्वारो धर्मा नव पदाश्रये । एकभक्त्या द्वयोर्भक्ति दानादीनां तथैव च ॥६॥ अर्हत् सिद्धाश्च सूरीशाः पाठकाः श्रमणास्तथा । दर्शनज्ञानचारित्रं, तपो नवपदात्मकम् ॥७॥ सिद्धचक्रं परं तत्त्वं शासने जिनभाषिते । परमार्थो न तद्भिन्नः कल्पशास्त्री कलावपि ॥८॥ मङ्गलं परमं ध्यानं, क्रियेयं मङ्गलप्रदा । मङ्गलं भावतो ध्याता, मङ्गलं साधनाक्षणः ॥९॥ सिद्धाः सिद्ध्यन्ति सेत्स्यन्ति, सिद्धचक्रप्रभावतः । भव्यानां क्षीणदोषाणां साधनेच्छा प्रजायते ॥१०॥ विद्याप्रवाहनिः स्यन्द, महासिद्धिप्रदायकम् ।
भव्याः ! संसेव्य भावेन, लभध्वं सिद्धिसम्पदम् ॥११॥ गुरूणां नेमिसूरीणां पादसेवाप्रभावतः ।
पद्मसूरिः प्रमोदेन, सिद्धचक्रस्तुतिं व्यधात् ॥१२॥
$50+08