________________
श्रीस्तोत्रचिन्तामणिः
१८३
एवमष्टगुणप्राप्ताः, पीता: श्रीसूरयो मताः । ध्येयास्तत् पीतवर्णेन, सूरयो धर्मनायकाः ॥१३६।। मेघवृक्षोपमानेन, शिष्यान् पाषाणसन्निभान् । दत्वा पल्लवितान् बोधं, कुर्वन्ति वाचका अमी ॥१३७।। तदादिकारणेभ्यस्ते, पाठका नीलवर्णतः ।। ध्येयाश्चित्तस्थिरत्वेन, सिद्धचक्रस्य साधकैः ॥१३८॥ श्यामं स्याद् भानुतापेन, यथा वस्तु तथा मताः । तपसो श्रमणाः श्यामाः, तद्ध्यानं श्यामवर्णतः ॥१३९।। श्वेता गुणस्वरूपेण, अन्तिमा दर्शनादयः । तद्ध्यानं श्वेतवर्णेन, तस्मात् कार्यं विवेकिभिः ॥१४०।। कारणान्तरमीमांसा, वर्त्ततेऽत्राऽप्यनेकधा । वर्णानां वर्णनं प्रोक्तं, तेभ्यः सङ्ग्रह्य देशतः ॥१४१।। आसन्नमुक्तिभव्यानां, सदैव विधिभावना । अभव्यादिकजीवानां, विधित्यागोऽविधौ रतिः ॥१४२।। ऐहिकार्थाभिलाषेणा-ऽनुष्ठानं यद् विधीयते । विषानुष्ठानमेतत्तु, शुभान्त:करणापहम् ॥१४३॥ पारलौकिककाङ्क्षाजं, गरानुष्ठानमुच्यते । गरं संयोगजं तद्वत्, समयान्तरपुण्यहृत् ॥१४४|| अननुष्ठानमेतत्तु, शून्यचित्तेन या क्रिया । अकामनिर्जरा चात्रो-पयोगव्यतिरेकतः ॥१४५।। अनुष्ठानगताद् रागा-दसुमद्भिविधीयते । ज्ञेयं तद्धत्वनुष्ठानं, परमार्थप्रदायकम् ॥१४६।। जिनमार्गं प्रति प्रीतः, श्रद्धालुर्विधिरागवान् । सात्त्विकोल्लाससम्पन्नः, करोति यामनुष्ठितिम् ॥१४७।। साऽमृतानुष्ठितिर्जेया, कर्ता तद्गतमानसः । क्रियाकालविधायी च, भाववृद्धिसमन्वितः ॥१४८।। पुलकितो विस्मयी च, भवभीतः प्रमोदभाग् । लक्षणैर्लक्ष्यते लक्ष्यं, साधना बहुलाभदा ॥१४९॥ भो भव्या! एतदाकर्ण्य, सम्यक् चित्तेऽवधार्य च । कार्या साधनसम्पत्त्या, सिद्धचक्रस्य साधना ॥१५०॥
॥ प्रशस्तिः ॥ बाणनिधाननवेन्दु(१९९५)-प्रमिते वर्षेऽक्षयतृतीयायाम् । श्रीनेमिसूरिसुगुरोः, विनेयलघुपद्मसूरिरहम् ॥१५१॥ (आर्यावृत्तम्) माहात्म्यान्वितभावं, नवपदमयसिद्धचक्रसार्धशतम् । श्रीमदहमदाबादे, स्तोत्रं चक्रे प्रमोदेन ॥१५२।।