________________
१८२
श्रीविजयपद्मसूरिविरचितः
मुल्येनैवाऽऽप्यते सर्व-मध्यक्षं यन्निरीक्ष्यते । साधना सिद्धचक्रस्या-ऽमूल्या निर्वाणदायिनी ॥११९।। त्रितत्त्वाराधनाऽप्यत्र, सवताराधनाऽपि च । दानाद्याराधना शुद्धा, मोक्षमार्गाधिसेवना ॥१२०।। निर्जरासंवरौ तत्त्वे, द्वे निःश्रेयसकारके । तन्निबन्धनयोगेषु, सिद्धचक्रस्य मुख्यता ॥१२१॥ शाश्वतं शर्म मोक्षस्य, साधनाऽप्यस्य शाश्वती । अष्टाह्निकाद्वयं चापि, शाश्वतं नाकिनामपि ॥१२२।। तस्मिन् काले सुराः सर्वे, द्वीपे नन्दीश्वराभिधे । विधायाऽष्टाह्निकानन्दं, लभन्ते कर्मलाघवम् ॥१२३।। मिथ्यात्वाविरतियोगाः, कषाया इति हेतवः । संसारस्य निरुद्ध्यन्ते, सिद्धचक्रस्य साधनात् ॥१२४|| सम्यग्दर्शनसंशुद्धिः, संहारोऽविरतेरपि । उपशान्तिः कषायाणां, प्रवृत्तिः शुभवर्त्मनि ॥१२५।। नवानां कर्मणां रोधः, सञ्चितानां च निर्जरा । क्रमादात्मस्वरूपं च, निर्मलं स्फटिकाश्मवत् ॥१२६।। शुक्लध्यानप्रतापेन, घातिकर्मचतुष्टयम् । दग्ध्वाऽऽप्नुवन्ति कैवल्यं, वर्णः श्वेतोऽर्हतां ततः ॥१२७।। श्रेष्ठध्यानाग्निना शीघ्रं, कर्मकाष्ठविदाहकाः । सिद्धा रक्तोऽनलो वर्णो, रक्तः सिद्धीशितुर्मतः ॥१२८।। विषापहं विनीतं च, मङ्गलं सद्रसायणम् । प्रदक्षिणावर्त्तमेव-मदाह्यानिन्धकं गुरु ॥१२९।। कञ्चनाष्टगुणा एते, घटन्ते सूरिषु क्रमात् । यथा स्वर्णं विषं हन्ति, घ्नन्ति मोहविषं तथा ॥१३०॥ स्वर्ण विनयसम्पन्नं, विनीताः सूरयस्तथा । गीयते मङ्गलं स्वर्ण, सूरयो मङ्गलात्मकाः ॥१३१।। तीव्ररोगापहं स्वर्णं, तत उक्तं रसायणम् । भावरोगांश्च प्रघ्नन्ति, सूरयस्तेन सन्निभाः ॥१३२।। स्वर्णं प्रदक्षिणावर्त, सङ्घभद्रानुगाश्च ते । चतुर्विधसङ्घभद्रा-नुकूलाः सूरयो मताः ॥१३३।। नाऽग्निना दह्यते स्वर्णं, विकटापत्तिवह्निना । दह्यन्ते सूरयो नाऽतोऽ-दाह्यास्तेऽत्र प्रभाषिताः ॥१३४।। निन्दापात्रं न च स्वर्ण-मनिन्द्याः सूरयस्तथा । स्वर्णं धातु गुरु प्रोक्तं, सूरयो गुरवस्तथा ॥१३५।।